SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १०८ छन्दोऽनुशासनम् । तोऽन्ये तु षड् गणा यथेष्टं भवन्ति । चतुर्थादक्षरात् परतश्च यगणो भवति तद्वृत्तं वक्त्रं नाम । यथा ”तस्यास्त्रस्तकुरङ्गाक्ष्या वक्त्रेण त्वं पराभूतः । हिमांशो क्षीयसे युक्तं लज्जसे तु न किं वृद्ध्या ॥ ३३.७ ॥ एवमन्यदप्युदाहार्यम् । अत्रं प्रथमपादस्य प्रथमस्थाने ग्लाविति द्वौ विकल्पौ । द्वितीये स्त्रवर्जनात् शेषगणैः षट् । तृतीये य एक एव । चतुर्थे ग्लाविति द्वौ । " अन्योsन्याभ्यासे चतुर्विंशतिः । प्रतिपादं चतुर्विंशतेर्भावादन्योऽन्याभ्यासे जातास्तिस्रो लक्षाः एकत्रिंशत्सहस्राः सप्त शतानि षट्सप्तत्यधिकानि ( ३३१७७६ ) । एवमियमेव संख्या प्रत्येकं विपुलाभेदेष्वपि ज्ञेया ॥ ३३.१ ॥ तद्युजोर्जः पथ्या ॥ ३४ ॥ तद्वक्त्रं युजोः पादयोस्तुर्यादक्षरात् परो जगणश्चेद् भवति तदा पथ्या । यथा"आलानितगजस्कन्धघृष्टाः पथ्यायतद्रुमाः । अद्यापि कथयन्त्येते राजेन्द्र तव दिग्जयम् || ३४.१ ॥ ओजे विपरीतादिः ॥ ३५ ॥ ओजयोः पादयोस्तुर्यादक्षरात् पॅरो जगणश्चेद् विपरीतादिः पथ्या । युक्पादयोर्य एवावतिष्ठते । यथा - " विपरीतानि रे शठ करिष्यसि कियन्त्यस्मात् । दुकूलं प्रच्छदीकृतं तस्या धत्से ममाग्रे यत् ।। ३५.१ ॥ नश्चपला ॥ ३६ ॥ ओजयोः पादयोस्तुर्याक्षरात् परो नगणश्चच्चपला " । यथा"वीक्षितोऽप्येष तिलकश्चपलाक्षि त्वया सद्यः । दधाति नव्यमुकुलै रोमाञ्चककं मन्ये ।। ३६.१ ॥ युजोः षड्भ्यो लो विपुला ॥ ३७ ॥ Jain Education International 1 ) तस्यास्त्रस्तेत्यत्र त्रस्तो भयभ्रान्तः स चासौ कुरंगस्तद्वदक्षिणी यस्याः । परेति - निर्जितः । 2 ) अन्योऽन्याभ्यासे इत्यत्र द्वौ षड्गुणौ जाता १२ एकेन गुणितं तदेव ततो १२ द्विगुणा २४ । एवं द्वितीयादिषु पादेषु भवन्ति भङ्गकाः । प्रथमपादभेदैः द्वितीयपादभेदाः ताड्यन्ते । एवं पादद्वयभेदैः तृतीयपादभेदाः । त्रिकपादभेदैः चतुर्थपादभेदाः । तदा उक्तसंख्या । 3 ) आलानितेति - आलानस्तम्भत्वं प्रापिता ये सामयोनयः । घृष्टाः त्वग्निराकरणात् । पथि मार्गे । दिग्यात्राम् । 4 ) विपरीतेत्यत्र अस्मादपीति - अन्यानीति शेषः । पट्टकूलं 'पछेडी' ति प्रसिद्धम् । 5 ) अपरस्त्रियः । 6 ) चपलेत्यत्र अत्रापि ३३१७७६ भेदा भवन्तीति । 7) वीक्षितोऽपीत्यत्र तिलको वृक्षविशेषः । मुकुलैः कोरकैः । १ वक्त्रनाम N. २ अथ P. ३ आद्यपादस्य EF. ४ तयुजोः A ५ परे जेगण० . ६ रोमाङ्कक० 4. For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy