________________
तृतीयोऽध्यायः।
१०७ खल्जेति शब्दस्य छन्दसि प्रवेशयितुमशक्यत्वात्" नाम नोक्तम् ॥ २९. १ ॥ शिखा - खञ्जयोः प्रकारान्तरमाह -
___ अर्धयोर्वा ॥ ३०॥ न्ललगा लुगौ चेत्योजयुक्पादयोर्यच्छिखाया लक्षणमुक्तं तत् पूर्वापरार्धयोश्चेद् भवति तदापि शिखा । एवं पूर्वापरार्धयोर्व्यत्यये खजापि । अर्धयोरित्यभिधानादोजयुजोरिति निवृत्तम् । तत्र शिखा यथा
"सुभग तव नवविरह इह महति विलसति चकितहरिणशिशुदृशः । अमृतरुचिरुचिरजनि विषममलकमलदलततिरपि देवदहनशिखा ।। ३०.१ ॥
खञ्जा यथाअभिनवविकसितकुरबकविचकिलबकुलपरिमलमधुरमधुसमये । त्वमिह कथमिव पथिक हतक गतकरुण परिहरसि निजमृगदृशम् ॥ ३०.२ ॥
अनयोर्विषमवृत्तत्वेऽप्यर्धसममध्ये लाघवार्थ पाठः ॥ ३०.२॥
न्लगावतिरुचिरा ॥ ३१॥ द्वयोरर्धयोर्नगणनवकं गुरुश्च । यथा
"घनपरिमलमिलदलिकुलमुखरितनिखिलकमलकुवलयवनः । जनयति मनसि निरवधि मुदमविरतमिह मम मधुरतिरुचिरे ॥३१.१ ॥
न्ललगाश्च ॥ ३२॥ द्वयोरर्धयोर्यथासंख्यं न्लगौ न्लूलेगाश्च यत्र भर्वन्ति साप्यतिरुचिरा । यथा
"रतिकरमलयमरुति शुचिशशंभृति हतहिममहसि मधुसमये । ___ परिहरसि पथिक हतक कथमतिरुचिरयुवतिमति हि चपलतया ॥ ३२.१ ॥
द्वे अप्येते चूलिके इत्यहीन्द्रः ॥ ३२.१॥
अर्धसमप्रकरणम्। अथ विषमवृत्तान्युच्यन्ते
अनुष्टुभि नाद्यात् लौ तुर्याद्यो वक्त्रम् ॥ ३३ ॥ अनुष्टुभ्यष्टाक्षरायां जातौ पादस्याद्यात् प्रथमादक्षरात् परौ स्नौ सगणनगणौ न भव
1) अशक्यत्वादिति-द्विगुरुत्वात् । अत्र न पादनियमः । किं तु शिखायाः द्वाभ्यां पादाभ्यां द्वयोरधयोनिष्पन्नयोरत्र वृत्तं संपूर्ण जायते। 2) सुभग तवेत्यत्र अमृतेति-चन्द्र किरणः । अमलेति-पत्रश्रेणिः । दवदेति-अग्निज्वाला । यथेति-तथात्रापि योज्यम् । 3) घनपरिमलेत्यत्र अत्रापि न पादसंख्या। 4)(हे अतिरुचिरे B)। 5) रतिकरेति-सुखकारी । अति हि भृशार्थम् । चञ्चलतया।
१ रुचि dropped in A. २ कुरुबक NP. ३ मधुर dropped in N. ४ कल A. ५न्लुल्गाश्च RGH. ६ स्युः RF. - ७ शशिभृति N.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org