SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १०६ छन्दोऽनुशासनम् । स्लगा सिल्गा इला ॥ २६ ॥ ओजे सलगाः । युजि सत्रयं लघुगुरू च । यथा "करटिसंवन्-, मदपङ्किलधूलिचितालिनाम् । रणितच्छलात्, तव गायति नूनमिला बलम् ॥ २६.१ ॥ स्लगाः सृदंगाङ्कमुखी ॥ २७॥ ओजे सलगाः । युजि सगणाष्टकम् । यथा "विरहे नवे, भवतः सुभगोद्धतघाष्पतुषारकणप्रकरो ग्लपयत्यनिशम् । कुमुदस्मिताम् , __ अरविन्दकरां विकचोत्पलचारुदृशं परिपूर्णमृगाङ्कमुखीम् ॥ २७.१॥ . न्ललेगा न्लुगौ शिखा ॥ २८॥ ओजे नगणनवकं लघुगुरू च । युजि नगणदशकं गुरुश्च । यथा"प्रसृमरमरिनरपतिबलतिमिरैनिकरमतनुमपि गुरुगिरिगुहा-, तरुगहनविकटकुहरशरणमिममखिलमिह समरसमयदिनमुखे । परममहिमनिलयेशशधरकुलगगनदिनकरपरपटिमजुषः, किरणततय इव विदधति चिरतरमवनिपतितिलक तव वरविर्शिखाः ॥ २८.१ ॥ व्यत्यये खञ्जा ॥ २९॥ ओजयुक्पादयोर्व्यत्यये शिखैव खञ्जा । तत्रौजयोस्त्रिंशल्लघवो गुरुश्च । युक्पादयोरष्टाविंशतिर्लघवो गुरुश्च । यथा4"प्रमुदितसमदपरभृतकलरणितमविकलशशधरकिरणविततयो, विकसितसरसिरुहविपिनमलिकुलविरुतमुखरितकुसुमितलताः । कुरंबकबकुलविचकिलविलसदविरलपरिमलसुरभिमलयपवनो, विरहविधुरयुवतिहृदयतपनमिदमखिलमपि नवमधुसमये ॥ २९.१ ॥ 1) करटीत्यत्र चित मिलित । इला वसुधा। 2) विरहे नवे इत्यत्र ग्लपयति ग्लानिं करोति पूर्णचन्द्रमुखीम् । हिमकणप्रकरोऽपि कुमुदारविन्दोत्पलमृगाङ्कान् ग्लपयति । 3)प्रसृमरमित्यत्र प्रसृमरं प्रसरन् (न्तम्)। अरितिमिरनिकर गुहादिशरणं विदधति कुर्वन्तीत्यर्थः । के? तव बाणाः। क इव? किरणश्रेणय इव ।क? संग्रामदिनप्रारम्भे । हे चन्द्रवंशगगनसहस्रकिरण । 4) प्रमुदितसमदेत्यत्र कोकिल(लः)। विततयः श्रेणयः । विपिनं वनम् । विरुतेति-शब्दवाचाल(ला)। विचकिलो मल्लिका । सुरभिः सुगन्धः। विरहो वियोगः । तपनमितितापकारि भवतीत्यर्थः । नूतनवसन्तसमये। १ श्रवन् AP. २चितालितां N. ३न्लल्गा GH. ४ मितिर A; ५लय dropped in N. ६ वरशिखाः A.७ युजोः इ. ८ विंशतिलघवो N. ९ कुरुबक N. १० विचकिललसद. N. ११ तव म. B. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy