________________
१०४
छन्दोऽनुशासनम् ।
सर्वथा,
जहीहि हन्त कामिनीम् ॥ २०.१ ॥
रो ज्रज्राः शिखी ॥२१॥ ओजे रगणः । युजि जरजराः । यथा"योषितो,
वियोगदुःखखिद्यमानमानसाः । दन्दहत्,
कटुस्वनैर्मयूर निश्चितं शिखी ॥ २१.१ ॥ .
रो ज्रजा ज्गौ नितम्बिनी ॥ २२॥ ओजे रगणः । युजि जरजरजगाः । यथा"सर्वथा,
विञ्चिशंकरामराधिराजकेशवर्षयः । भेजिरे,
यदुत्पथं चिराय तत्र कारणं नितम्बिनी ॥ २२.१ ॥
रस्त्रिौं ल्गौ वारुणी ॥ २३ ॥ ओजे रंगणः । युजि त्रीन् वारान् जौ । जरजरजरलगाः। यथा"उत्तम,
घनाविनश्वरप्रमोदकारणं कृतिन् यदीहसे सुखम् । ' निर्मलं, • तदा शमामृतं पिबानिशं सुदारुणं विमुञ्च "वारुणीम् ॥ २३.१ ॥
रश्चतुर्जी वतंसिनी ॥ २४॥ ओजे रंगणः । युजि चतुरो वारान् नौ । जरजरजरजराः । यथाशोभते,
धनुर्लतेव पुष्पधन्वनः शिरीषकोमलाङ्गिका सरोजलोचना । बालिका,
जपासहोदराधरा "मधूककान्तिमत्यशोकपल्लवावतंसिनी ॥ २४.१ ॥
1) योषित इत्यत्र हे मयूर त्वं शिखी असि निश्चयेन । शिखी मयूरो वह्निश्च । 2) सर्वथेत्यत्र उन्मार्ग चिरकालम् । 3) उत्तममित्यत्र अविनाशिहर्षहेतुम् 4) मदिराम् । 5) शोभत इत्यत्र मधूककान्तिमतीति-गौरागीत्यर्थः । ककेल्लिकिसलयशेखरवती।
१मान dropped in c. २ निहन्ति N. ३ रो अघ्रज्गाः BF. ज्गो dropped in. G. ४ विरिख N; विरिच्चि P. ५रः A. ६समे A. ७रः A. ८ समे A.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org