SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ १०३ छन्दोऽनुशासनम् । "वन्यसैरिभा भवद्विपक्षधाम्नि, निरन्तरेन्द्रनीलबद्धभूमिभागे । न्यग्मुखं प्रकुर्वते मुधा वितळ, विनीलविस्फुरद् यवान्वितां धरित्रीम् ॥ १०.१॥ यवान्वितां यवमतीमित्यर्थः । छन्दोवशाच्च यवान्वितामित्युक्तम् ॥ १०.१॥ व्यत्यये षट्पदावली ॥११॥ व्यत्यये इत्योजे जरजरगाः । युजि रजरजाः । यथा "नवोदयं चिरादुपेयिवांसमक, स्वागतानि पृच्छतीव संमदेन । सरोजिनी विकस्वरा निशावसाने, षट्रपदावलीकृतस्वनच्छलेन ॥ ११.१ ।। नभभ्रा नभिरा मकरावली ॥१२॥ ओजे नभभराः । युजि नो भत्रयं रश्च । यथा "मकरकेतुभटस्य विराजते, वरतनुर्ध्वजयष्टिरिव प्रगुणीकृता । मृदुकपोलतले दधती नवां, मृगमदस्तबकैलिखितां मकरावलीम् ॥ १२.१॥ .. मसागाः सभासाः करिणी ॥ १३ ॥ ओजे मः संगणद्वयं गुरुश्च । युजि सो भगणद्वयं सश्च । यथा "चन्द्रो मत्तकरीन्द्र इवायं, दलितोदामतमस्तरुगहनः । क्रीडत्यम्बरपल्वलमध्ये, स्फुटताराकरिणीभिरनुसृतः ॥ १३.१ ॥ सागाः सधैंल्गाः प्रबोधिता ॥१४॥ ओजे सद्वयं जगौ च । युजि सभरलगाः । यथा "तरुमूलगृहाः क्षपाक्षये, नृप निद्रां जहति द्विषस्तव । विटपान्तकुलायनिष्पतत्-, पतगश्रेणिरवैः प्रबोधिताः ॥ १४.१ ॥ नारल्गा नजज्रा अपरवक्रम् ॥ १५॥ ओजे नगणद्वयं रलगाश्च । युजि नजजराः । यथा "नृपवर भवदीयवर्णनं, निखिलमुखै रचयन् पुरातनैः । अधिकमपरवक्त्रमीहते, श्रुतिपठनाय चतुर्मुखोऽधुना ॥ १५.१ ॥ ___ एतौ वैतालीयभेदौ ॥१५.१ ॥ 1) वन्यसैरिभा इत्यत्र वनमहिषाः त्वद्वैरिगृहे । तिर्यग् । आशङ्कय । नूतनयवयुक्तां वसुधाम् । 2) नवोदयमित्यत्र उपेयिवांसं आगतम् । स्वागतेति-शोभनान्यागतानि स्वागतानि कुशलागमनानि । निशेति-रात्रिप्रान्ते । छलेन कपटेन। 3) मकरेत्यत्र कन्दर्पसुभटस्य । कामिनी । ध्वजः पताका। मकरेति-मकरस्य रूपाकृतिपत्रलेखाम् । ध्वजेऽपि मकररूपाणि भवन्ति । 4) चन्द्रो मत्तेत्यत्र उद्दामो दीप्तः । अनुसृतः आश्रितः। 5) तरुमूलेत्यत्र शाखाप्रान्तमालकनिर्गच्छत्पक्षिराजिशब्दैः। 6) नृपवरेत्यत्र पुरातनः जीर्णैः । पञ्चमं वाञ्छति ब्रह्मा । १यववतीं BNP. २ व्यत्यये इति dropped in P. ३ मकरावती G. ४ सद्वयं गुश्च .. ५ भद्वयं A. ६ अनुसृताः A. ७ सभाः N; सभ्रसल्गाः A. ८ प्रबोधिता B. ९ नद्वयं A. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy