SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽध्यायः। १०१ तज्रगा मस्जगगा भद्रविराट् ॥ ६॥ ओजे तजरगाः । युजि मसजगगाः । यथा "पश्येद्भगवन् पदारविन्द-, द्वन्द्वं भक्तित एकदापि यस्ते । बिभ्रद्भुवनाधिपत्यमेकं, भद्रं भद्रविराट् भजेत सोऽपि ।। ६.१ ॥ औपच्छन्दसकमिदम् ॥ ६.१ ॥ सजस्गा भर्नगगाः केतुमती ॥७॥ ओजे सजसगाः । युजि भरनगगाः । यथा "प्रसरद्रजःस्थगितसूर्यां, केतुमतीमुदीक्ष्य तव सेनाम् । वसुधापते दिवमिवात्म-, नाशमशङ्कत त्वदरिवर्गः ॥ ७.१ ॥ ताजगगा जतजगगा आख्यानकी ॥८॥ ओजे ततजगगाः । युजि जतजगगाः । यथा "त्वद्वैरिभूपैरियमागतोच्चैर्-, मरालनादैर्मुखरा शरच्छ्रीः । आख्यानकीव त्वदनीकयात्रो-, त्सवस्य सद्यश्चकितैरुदैक्षि ॥ ८.१ ॥ ___ आख्यानकी वार्ताहारिका ॥ ८.१ ॥ व्यत्यये विपरीतादिः॥९॥ व्यत्यये इति ओजे जतजगगाः । युजि ततजगगाः । विपरीतादिविपरीताख्यानकीत्यर्थः । यथा - अमंस्त ते दुर्नयचेष्टितानाम् , आख्यानकी या विपरीतवृत्तिम् ॥ .. पुरः सखीनां ब्रुवता विपक्ष-, नाम त्वया संप्रति लज्जिता सा ॥ ९.१ ।। "एतयोश्च उपजात्यन्तर्गतत्वेऽपि विशेषसंज्ञार्थमत्र पाठः ॥ ९.१॥ जर्जा जज्रगा यवर्मती ॥१०॥ ओजे रजरजा । युजि जरजरगाः । यथा 1) पश्येद्भगवन्नित्यत्र भद्रं कल्याणं भजेत । भद्रं स्यादेवं विराजते भविराट् । 2) प्रसरद्रज इत्यत्र आच्छादितरविम् । केतवो ध्वजा ग्रहाश्च । आकाशमिव । यदा गम(ग)ने केतुरुदयति तदा जीवानां नाशो भवतीति लोकाः । [दिवशब्देन दिनं भासते । ततो यथा दिनस्यात्मनाशो जातः तथास्माकमपि B. P.11 3) त्वद्वैरीत्यन्त्र हंसध्वनितैः । आख्यानं करोति कारयति वा गौरादित्वात् डीः। उदैक्षीति- दृष्टा । 4) अमस्त ते इत्यत्र या कामिनी तव दुर्नयचेष्टितानां कथयित्री अमन्यत पराङ्मुखवृत्तिं सा सांप्रतं विपक्षायाः सपत्याः नाम सखीनां पुरतो ब्रुवता व्रीडां धत्ते इति। 5) एतयोरित्यत्र इन्द्रवज्रोपेन्द्रवज्रा(ज्र)[योरुपजात्यन्तर्गतापि विशेषावबोधार्थ उक्ता उदाहरणद्वयी। १ औपच्छन्दसिकमिदं ABN. २ आख्यानिकी H. ३ आख्यानकी-वृत्तिः A. ४ यववती BN. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy