________________
अथ तृतीयोऽध्यायः। इदानीमर्धसमवृत्तव्यावर्णनार्थमुपक्रम्यते
ओजयुजोः ॥१॥ अधिकारोऽयमाविषमवृत्तेभ्य उपतिष्ठते । तत्रौजं विषमं; युक् समं लोकसिद्धम् ॥१॥
तत्रसिल्गा नभभ्रा हरिणप्लुता ॥२॥ ___पाद इति चानुवर्तते । ओजपादयोः सगणत्रयं लघुगुरू च । युक्पादयोः नभभरा . यत्र वृत्ते सा हरिणप्लुता । यथा
"नृप शैलशिलाशयनासनाः, विदितंकन्दफलाहरणाः सदा । निवसन्ति बने भवतो द्विषस् , तरुनिकुञ्जगता हरिणप्लुताः ॥ २.१ ॥
सिल्गा भिगगा उपचित्रम् ॥३॥ ओजपादयोः सगणत्रयं लघुगुरू च । युजोर्भगणत्रयं गुरुद्वयं च । यथा
"अयमत्र नृपः सचिवस्त्वसा-, वेष कुमार इतः प्रतिहारः । उपचित्रमिति त्वदरेर्गृहे, वक्ति मिथः किल पान्थसमूहः ॥ ३.१ ॥
लोनं वेगवती ॥४॥ उपचित्रमेव लघुना रहितं वेगवती । ओजे सिगौ युजि भिगगा इत्यर्थः । यथा
"नृपते तव कार्मुकवंशान ,-निष्पतिता शितसायकमाला । क्षितिभृच्छिरसि प्लवमाना, वेगवती बत नूतनरेवा ॥ ४.१ ॥
"आपातलिकेयम् ॥ ४.१॥ भिगगा नजज्या द्रुतमध्या ॥५॥ ओजे भगणत्रयं गुरुद्वयं च । युजि नजजयाः । यथा
"वीरजिनेन्द्र भवत्पदपद्म, भ्रमर इव द्रुतमध्यगमद् यः । मुक्तिधूपरिरम्भणसौख्यं, करतलगामि कृतं खलु तेन ॥ ५.१ ॥
उपचित्रा । आपातलिकापरान्तिकेयम् ॥ ५.१ ॥
अथ तृतीयोऽध्यायः सपर्यायो लिख्यते। 1) नृप शैलशिलेत्यत्र आहरणं आहारः । हरिणवत् प्लुतं गमनं येषां ते । अथवा सुभटागमशङ्कया हरिणेऽपि दृष्टे नष्टाः प्लुष्टाः (ताः)। 2) अयमत्रेत्यत्र प्रती(ति)हारो दौवारिकः । उपचित्रमिति- त्वद्वैरिनगरे चित्रसमीपं परस्परं निदर्शयति । 3) नृपते तवेत्यत्र रेवापि वंशान्निर्गच्छति इति श्रुतिः। रेवा तु गिरेरधोभागे प्लवते इयं तु क्षितिभृतां राज्ञां [शिरसि] प्लवते ततो नूतनरेवा। 4) आपातलिकेयमिति - ओजे षण्मात्रा युज्यष्टौ भगणद्वयान्ताश्चेदापातलिका । 5) वीरजिनेन्द्रेत्यत्र अध्यगमद् मध्ये (अधि?) गच्छति । मुक्तिरामोपगृहनसौख्यम् । हस्तगामि ।
१ लोकतः सिद्धं P. २ विदित dropped in N. ३ रिपोस .. ४N. adds प्राच्यवृत्तिरियम् । ५ लगौ च A. ६ ओजयोरुपान्त्यलघुना न्यूनम् । आपातलिकेयं F. ७ रेखा N. ८ मुक्तिविधं परि० A. ९ इयं dropped in A.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org