SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः। "पीनघनोन्नतवृत्तविशालतरस्तनमण्डलगाढनिपीडन कण्टकिताङ्गः, कोमलबाहृमृणाललतादृढवेष्टितकण्ठतटः परिचुम्बन विभ्रंमपात्रम् । वासगृहे बहलोच्छ्वसितागुरुधूमलतानिचिते शयने ___ मृदुनि "क्षणदायां, यो दयितां रमयत्यतिसंभ्रममानजुषं स भुजंगविलास धुरामिह धत्ते ॥ ४००.१ ॥ । एवमेकैकभगणवृद्धयान्यदप्युदाहार्यम् ॥ ४००.१ ॥ नाभ्यां पञ्चमात्रैरुत्कलिका ॥ ४०१॥ द्वाभ्यां नगणाभ्यां परैर्यथेष्टं पञ्चमात्रैर्गणैरुत्कलिका नाम । यथा"स्मितबकुलशिरीषकङ्केल्लिककोलनव्यप्रसूनावलीपरिमलविलोल रोलम्ब-"रोलीकुलीकृताखिलचारुलीलावनो, मृदुमलयसमीर-"शैलूषशिक्षाक्रमानुगुणविविधाङ्गहारप्रयोग प्रपञ्चप्रवल्गल्लतानर्तकीरम्यरङ्गावनिः । अभिनवसहकारकोरकास्वादमाद्यत्-'पिकयुवतिपञ्चमोच्चारमन्त्रास्त्र साधितविषममानिनीमानदुर्गः समन्तादयं, कमिव सपदि "संततोत्कलिकमिह नो विधत्ते जनं "हेलया निर्जिता शेषलोकस्य देवस्य कामस्य निर्व्याजबन्धुर्मधुः ।। ४०१.१ ॥ एवमेकैकपञ्चमात्रवृद्धथान्यदप्युदाहार्यम् ॥ ४०१.१ ॥ दण्डकप्रकरणम् । इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञच्छन्दोऽनुशासनवृत्तौ समवृत्तव्यावर्णनो नाम द्वितीयोऽध्यायः ॥२॥ ग्रन्थाग्रं १०४३, उभयं ११६८ । 1) पीनघनोन्नतेति-पीनाः पुष्टाः । घनाः कठिनाः । वृत्ता वर्तुलाः । 2) क्षणदायां रात्रौ । 3) स्मितबकुलेत्यत्र प्रसून पुष्पम् । 4) रोलाः शब्दाः। 5) शैलूषो भरतः। 6) पिकयुवतिः कोकिला । 7) संततोत्कलिकं आल्हादमयम् । 8) हेलया क्रीडया । इति श्रीछन्दोनुशासनद्वितीयाध्यायपर्यायाः संपूर्णाः॥ १ कोमलषडमृ०. N. २विभ्रम dropped in O. ३ बहलोचलितागुरु N. ४ दयिता मयत्यतिशंभ्रम A. ५ द्वाभ्यां dropped in P. ६ रोलम्बलीलाकुली. वने N. ७न ABON. . . Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy