________________
२७
द्वितीयोऽध्यायः। "सुभग त्वयि दूरमुपेयुषि सा न कदाचिदुपैति विलासगृहाभिमुखं,
विकचाब्जर्वने न ददाति दृशं शिशिरागुरुचन्दनपङ्कमपाकुरुते । न च हृष्यति "चाटुकरीषु सखीष्वपि पक्कपलाण्डुनिभं वहते वदनं, कुसुमास्तरणानि पिनष्टितरां परिमुह्यति शीतलशीतमयूखकरैः ॥ ३९५.१ ॥
एवमेकैकसगणवृद्धयान्यदप्युदाहार्यम् ॥ ३९५.१ ॥ याः सिंहविक्रीडः॥ ३९६ ॥ यत्र यथेष्टं यगणाः प्रयुज्यन्ते स सिंहविक्रीडः । यथा"क्वचित्पङ्कशङ्काभ्रमत्कोलदंष्ट्रासमुल्लेखनिष्पिष्ट
___ वेश्मान्तकाचावनीकं, क्वचिन्नालिकेरीफलास्फालनव्याशाखामृगश्रेणि
___ पर्याकुलोद्यानभागम् । कचित्तप्तमज्जन्महासैरिभोदामशृङ्गाप्रपातोच्छलद्
दीर्घिकावारिसान्द्र, कचित् सिंहविक्रीडबूत्कारपोरं चुलुक्येन्द्र जज्ञे पुरं
____त्वद्रिपूणामिदानीम् ॥ ३९६.१ ॥ एवमेकैकयगणवृद्ध्यान्यदप्युदाहार्यम् ॥ ३९६.१ ॥ ल्गावनङ्गशेखरः ॥ ३९७ ॥ यत्र यथेष्टं निरन्तरौ लघुगुरू प्रयुज्यते सोऽनङ्गशेखरः । यथा"विशालभाललोलघूर्णमानकज्जलोज्वलालक
द्विरेफमालिकोपशोभिते, विबुद्धहावमुग्धचारुपक्ष्मलालसभ्रमत्सु
तारदीर्घनेत्रपत्रसुन्दरे। अमन्दकुन्दकुङ्मलाग्रकोमलोल्लसद्द्युतीद्ध
शुद्धदन्तपतिकेसरालये, 1) सुभग त्वयीत्यत्र उपेयुषीति - गतवति क्रीडागृहसंमुखम् । 2) चाटुकेति-प्रियवचनानि तानि । पलाण्डुर्लसनकन्दः । पिनष्टि चूर्णीकरोति । परीति-मूछी गच्छति चन्द्रकिरणैः। 8) क्वचिदित्यत्र कर्दमभ्रमात् । शूकरः । अन्तः(न्त)शब्दः स्वरूपे प्रान्ते बन्धे च । शाखामृगेति-वानराः । महासरिभो वनमहिषः । विक्रीडनेन क्रीडया बूत्काराः। 4) विशालभालेत्यत्र उज्वलाः दीप्तिमन्तः येऽलकास्त एव भ्रमराः। हावो मुखविकारः । अनङ्गशेखरोऽनङ्गपरवशः।
१ वते N. २ शिशिरागरु N. शशिरागुरु P; ३ ग्रवातो. N; ४ विक्रीडि B. ५ लग (गौ) प्रयुज्येते A. ६ पूर्णमान० N.
१३ छन्दो०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org