SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ छन्दोऽनुशासनम् । याः सिंहविक्रान्तः ॥ ३९२ ॥ लोः परे यथेष्टं यगणा यत्र स सिंहविक्रान्तः । यथातरुणतरणितेजःप्रतप्ता वराहा इवारण्यभागेषु मुस्ताक्षतिं पल्वलान्ते, विदधति किल केचित्तथान्ये महाभूभृतां कन्दराः कौशिकौघा" इवाभिश्रयन्ते । विपिनगहनमध्ये पुनः केऽपि "शाखामृगक्रीडितं बिभ्रति "प्रत्यनीकक्षितीशाः, प्रकटयति सदा सिंहविक्रान्तलीलामनूनां त्वयीमां धरित्रीश चौलुक्यचन्द्र ।। ३९२.१ __एवमेकैकयगणवृद्ध्याप्युदाहार्यम् ॥ ३९२.१ ॥ लूगिभ्यां मेघमाला ॥ ३९३ ॥ लघुषट्कात् गुरुत्रयाच परे यथेष्टं यगणा यत्र प्रयुज्यन्ते से मेघमाला नाम दण्डकः । यथा अविरलमदपाथोनिर्झरप्लावितक्षोणिपीठा महाशैलशृङ्गायमाणाः, __ कपिशरुचिलसद्दन्ताशनिद्योतरौद्रा महागर्जितत्रासिताशेषलोकाः । रिपुनरपतिमातंगाः क्षणादेव देव प्रणाशं ययुः "संयुगान्तयुगान्ता-, . निल इव विपुलप्राणे महामेघमाला महीपालधुर्य त्वयि "प्रोज्जिहाने ॥ ३९३.१ ।। एवमेकैकयगणवृद्धथान्येऽप्युदाहार्याः ॥ ३९३.१ ॥ यथेष्टं रा मत्तमातंगः॥ ३९४ ॥ खेच्छया यत्र रगणाः प्रयुज्यन्ते स मत्तमातंगः । पुनर्यथेष्टग्रहणं लगिभ्यामित्येतैस्य निवृत्त्यर्थम् । यथा"पुष्पचापस्य चापश्रियं बिभ्रती भङ्गुरभ्रूविलासैः स्मितस्मेरकस्तूरिका-, केलिपत्रावलीभङ्गिविभ्राजिगण्डस्थलेनेन्दुबिम्बानुकारं सदा कुर्वती । चारुवक्रोक्तिग:र्वचोभिर्विदग्धैरमन्दं च पीयूषनिष्यन्दमातन्वती, मत्तमातंगलीलागतिः काश्चनच्छेदगौरी मुदं कस्य नाविष्करोति प्रिया ॥ ३९४.१ ॥ एवमेकैकरगणवृद्ध्यान्यदप्युदाहार्यम् ॥ ३९४.१ ॥ साः कुसुमास्तरणः ॥ ३९५ ॥ यथेष्टं सगणा यत्र प्रयुज्यन्ते स कुसुमास्तरणः । यथा 1) तरुणतरणीत्यत्र कौशिकास्तत्समूहा इव घूकश्रेणय इव । 2) शाखामृगेति - वानरः । 3) प्रत्यनीका वैरिणः। 4) अविरलेत्यत्र संयुगान्तरिति-संग्राममध्ये । यथा युगान्तानिले प्रोद्यते सति विपुलपाणे महापराक्रमे महामेघमालाः प्रणाशं यान्ति। 5) प्रोज्जीति-देदीप्यमाने। 6)पुष्पचापेत्यत्र कन्दर्पस्य धनुःश्रियम् । भङ्गुरेति वक्रम् । हास्यविकस्वरम् । कस्तूरीपत्रवल्लीलक्ष्मस्थाने भङ्गिः रचना । चारु इति-गर्भे मध्ये । आविरिति-प्रकटीकरोति । १सा ABCDN. २ निर्झराप्लावित P. ३ इत्यस्य F. ४ निष्पन्द N. ५ कुसुमास्तरः H. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy