________________
द्वितीयोऽध्यायः। तिदेशात्सप्तभिः प्रचितः । ततः परमेकैकयादिवृद्धा अर्णार्णवव्यालजीमूतलीलाकरोदामशङ्खादयोवापि भवन्ति । यथा
"विलसदुरुतरवारिप्रचण्डे महावाहिनीव्यूहविस्फारणव्यक्तशक्तौ, प्रकटयति रुचिराखण्डकोदण्डदण्डं दिशैत्युच्चकै "राजहंसप्रणाशम् । प्रशमयति निखिलं मेदिनीचक्रसंतापविस्फूर्जितं न्यकृतार्कप्रतापे, "प्रचितघनबलयुक्त नभस्यायमाने चुलुक्येश्वरे को न धत्ते प्रमोदम् ॥ ३८९.१ ॥
एवमादिषु शेषगणेषूदाहार्यम् । एकैकगणवृद्ध्या च अर्णाणवव्यालजीमूतलीलाकरोदामशङ्खादयोऽप्युदाहाः ।।
नग्भ्यामष्टादिराः पन्नग-दम्भोलि-हेलावली-मालती
केलि कङ्केल्लि-लीलाविलासादयः ॥ ३९० ॥ ' नगणाद्गुरोश्च परे अष्टादिसंख्या रगणा येषु ते यथासंख्यं पन्नगादयो दण्डका भवन्ति । तत्राष्टरगणः पन्नगः । यथा"अविकलध्यानसंतानधूमध्वजज्योतिराडम्बरप्लुष्टनिःशेषकर्मेन्धनो,
विदलितोदप्रभूयःकषायश्चिरायैष पायादपायात् स वः पार्श्वनाथो जिनः । कमठदैत्ये च गाढोपसर्गक्रियाकर्कशे तत्प्रतीकारबद्धप्रयत्ने भृशं, प्रकटितात्यन्तभक्तौ तदा पन्नगेन्द्रे च यस्याभवन् दृष्टिपाताः कृपार्द्राः समाः॥३९०.१ ॥
एवमेकैकरगणवृद्ध्यान्येऽपि षडदाहायः ॥ ३९०.१॥ लोर्यथेष्टं राश्चण्डकालः ॥ ३९१ ॥ लघुपश्चकात्परे यदृच्छया क्रियमाणा रगणाश्चण्डकालः । यथा"विविधमणिमेखलाश्रेणिविश्राणितश्रीणि हित्वा पुराण्याशु चान्तःपुराण्युच्चकैः, ... करटितुरगादिसेनासहस्राणि च स्वीकृतच्छद्मकर्मन्दिवेषास्त्वदीयद्विषः । प्रतिदिशममी गिरीणां महाकन्दराः शाखिगुल्मानि कूलंकषाकूलरन्ध्राणि च, स्फुरति तव चण्डकाले कराले कृपाणे सदा संश्रयन्ते महीपालचूडामणे॥ ३९१.१ ॥
ऐवमेकैकरगणवृद्धयाप्युदाहार्यम् ॥ ३९१.१ ॥ 1) विलसदरुतरवारीत्यत्र महावाहिनी सेना नदी च । कोदण्डं इन्द्रधनुः। 2) राज्ञां जीवाः पक्षे राजहंसाः तेषां गमनम्। 3) विस्फूर्जितं क्रीडितम् । 4)प्रचितेति-घनं प्रभूतं यद्धलं सैन्यं पक्षे मेघानां बलम् । नमस्येति-भाद्रपदमासत्वमाचरति। 5) अविकलध्यानेति-अविकलं असाधारणं ध्यानं तस्य संतानः परंपरा | तेन]. एव अग्निज्वालाडम्बरेण दग्धः कर्मकाष्ठनिकरो येनेति सः। 6) विदलितेति-भूयो बहः । 7) विविधमणी त्यत्र मेखला अद्रेमध्यभागाः विविधमणयश्च ता मेखलाश्च विविधमणिमेखलाः तासां श्रेणयः ताभ्यो विश्राणिता श्रीयः । पक्षे मेखला रसना । यद्वा पुरपक्षे मेखला खड्गबन्धो यस्य असवलंति प्रसिद्धिः इति प्रत्यन्तरे।
१ स्युः F. २ तरोवारि A. ३ व्यक्त dropped in N. ४ दिशुत्यु० N. ५ बलयुक्तो N. ६ स्युः . ७ वयस्या. N. ८ कर्मादिवे. ADN. ९ ABN. drop एवं; D adds अन्यद् before अप्यु०.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org