SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ९४ छन्दोऽनुशासनम् । - त्रयोदशभिरुद्दामः । यथा”वलयितवरकन्धरं वादुत्तुङ्गते जे स्विगन्धर्वराजीखुरक्षुण्णविश्वंभराक्षोदसंदोहविक्षेपणादुर्दिना डम्बरं ", प्रथममपि निरीक्ष्य सप्रेमकान्तामुखाम्भोरुहाँलोकने सक्षणं कौतुकी नष्टुकामोऽपि यावद्भवत्युन्मनास्त्वद्विपक्षव्रजः । नृप तव सहसा जयश्री विलासैकधामी भ्रमातङ्ग" - संस्पर्धिनोऽभ्रंकषैर्विग्रहैर्भीषणाः क्षोभयन्तो जगद्गर्जितैरूर्जितैः, स्रुतमदजलनिर्झरैर्ध्वस्तधूलीवितानाः कृतान्ता इवोद्दामगन्धद्विपासूतावदाविर्भवन्तश्चिरान्मूर्च्छयामासुरेनं विभो ॥ ३८८.६ ॥ चतुर्दशभिः शङ्खः । यथा "अमरपतिकरिभ्रमं विभ्रतीभाः समग्राः कलङ्कः कलाविभ्रमं धारय-. त्यत्रिनेत्रप्रसूतस्य कृष्णो वहत्यन्धकध्वंसकर्तुस्तुलां, कुवलयवनमातनोति श्रियं पौण्डरीकीं कलिन्दात्मजा जहुकन्योज्ज्वलं वारि धत्ते विधत्तेऽञ्जनाद्रिर्विलासं च कैलासपृथ्वीभृतः । कलयति लवणोदधिः क्षीरपाथोधिलीलायितं शेषशोभामशेष हयः " प्राप्नु"वन्तीन्द्रनीलाच" मुक्तामणीनां समासादयन्ति त्विषं, विचकिलहरहासनीहारहारेन्दुशङ्खावदातैरमीभिः स्फुरद्भिर्महीपालचूडामणे " शासनैश्वर्यवज्रायुध त्वद्यशोराशिभिः ।। ३८८.७ ॥ आदिशब्दात् पञ्चदशभिः समुद्रः षोडशभिर्भुजंग इत्येवमादयो यथेष्टकृतनामानो यावदेकोनसहस्राक्षरः पादस्तावद्भवन्ति ।। ३८८.७ ॥ नाभ्यां रवद्यादयः प्रचितः ॥ ३८९ ॥ नगणद्वयात् परे यादयः सर्वे वर्णगणा यदा भवन्ति तदा प्रचितः । " रवद् इत्य 1 ) वलयितयरेत्यत्र वलयिता वलयाकारं प्रापिता कन्धरा यत्रेति क्रियाविशेषणम् । वल्गन्तो धावन्तस्तेजस्विनो गन्धर्वा अश्वास्तेषाम् । 2) दुर्दिनमिव दुर्दिनं मेघजं तमस्तस्या डम्बरस्तम् । 3 ) अभ्रमातङ्ग ऐरावणः । अभ्रं आकाशं कषन्तीति अभ्रकषाः । उच्चैरुच्चा । विग्रहा (है): शरीरा (रै): । ऊर्जितैर्दीप्रैः । कृतान्ताः यमा इव श्यामवर्णत्वात् । उद्दामेति - उत्कटमूर्च्छा प्रापयामासुः । 4 ) अमरपतीत्यत्र इन्द्रहस्तिभ्रान्तिम् । सर्वेऽपीभाः श्यामा अपि शुभ्रा जाताः । अत्रिनेत्रेति - चन्द्रो हि अत्रिऋषिनेत्रजात इति श्रुतिः । अन्धकेति - ईश्वरस्य । कलिन्देति – यमुना गङ्गोज्वलम् । शेषेति - शुक्लः सः । 5 ) अखिलनागाः । 6 ) इन्द्रः मणिभेदः । 7) शासनं आज्ञा ऐश्वर्ये च ताभ्यां वज्रायुधस्तत्संबोधनम् । 8 ) वदित्यतिदेशादिति - अत्र अन्यत्र विस्तारेण प्ररूपितस्य संक्षेपेण कथनमतिदेशः । कस्मिन्नपि दण्डके रखद् यगणानां न्यासः भवतु, कस्मिन्नपि भगणानां, कस्मिन्नपि तगणानां इति । पुनः सप्तसु यगणेषु प्रचितः सप्तसु भगणेषु प्रचितः । तथा तगणादिष्वपि ज्ञेयम् । ततः परं सर्वेषां गणानां न्यासः । सदृशान्येवार्णार्णवादीनि इति । १ बलात्तुङ्ग N. २ तेजश्वि B. ३ रुहावलोकने A. ४ धामोऽभ्रमा० N. ६ करिविभ्रमं A. ७ बिभ्रती भोः N. ८ अशेषाह्वयः N. ९ शुभनामानो P. Jain Education International For Personal & Private Use Only ५ श्रुत० A. श्रुत० CDN. १० क्षरपादः N. www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy