SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ छन्दोऽनुशासनम् । स्थातुं "न्यायोन्मीलबुद्धे लघुभिरपि सह बहुभिरिह कुरु मा विरोधपदं तदा । विस्फूर्जत्फूत्कारं क्रीडाकवलितसकलमृगकुलमजगरं "भुजंगममुन्मदं, "संघातं कृत्वा पश्यैता ग्लपितवपुषमनवधिरचितरुजा अदन्ति पिपीलिकाः ॥ ३८५.१ ॥ ३०॥१॥ एषैव नीपरतः पञ्चदशपञ्चदशलवृद्धा क्रमेण करभ ३५-पणव ४०-मालाः ४२॥ ३८६॥ एषैव पिपीलिका चतुर्यो नगणेभ्यः परतः पञ्चभिर्दशभिः पञ्चदशभिश्च लघुभिर्वृद्धा शेषगणेषु तथैव स्थितेषु क्रमेण करभादयो भवन्ति । तत्रं पञ्चभिर्वृद्धा पिपीलिकाकरभः । यथा "नित्यं लक्ष्मच्छायाच्छन्नः कलयतु कथमिव तव वदनरुचिममृतरुचिश्चिरं क्षयसंयुतः, तुल्यं नाब्जं "स्फूर्जली विधुरितजननयनयुगमतिमृदुकरचरणस्य निर्मलचारुणः । कण्ठस्येयं दासी श्यामा परभृतयुवतिरपि मधुपरिचयकलविरुतिनिसर्गकलध्वनेः", भ्रूवल्लीभङ्गे छेकाया हरिणनयनमचतुरमतिललिततनु करभोरु नो सदृशं दृशः ॥ ३८६.१ ॥ ३५॥१॥ दशभिर्वृद्धा पिपीलिकापणवः । यथा"रुन्दोऽमन्दः कुन्दच्छायः शरदमलघनतुहिनविकचकुमुदवनहरहसितसितः" शशाङ्ककरोज्ज्वलः, तारः "पारावारापारः स्थलजलगगनतलसकलभुवनपथधवलनपरिचितः "प्रसा 1) न्यायेन उन्मीलन्ती विकसन्ती बुद्धिर्यस्येति तत्संबोधनम् । 2) भुजैर्य गच्छन्ति ते सर्वेऽपि गोधासांजगरादयो भुजंगमा भुजपरिस उच्यन्ते । 3 संघेति- एकीभूय । ग्वेदितं वपुर्यस्य तं कीटिकाः। 4) नित्यं लक्ष्मेत्यत्र कलक्कच्छायाव्याप्तः। 5) रजः परागश्च । 6) स्वभावरम्यध्वनेः। 7) रुन्दोऽमन्देत्यत्र रुन्दो विपुलः। 8) तुहिन-विकचकुमुदवन-शंकराट्टहासवत् शुभ्रः। 9) पारावारवत् समुद्रवदपारः। 10) मण्डितं दिङ्मुखं येन । १ पूत्कार N. २ उन्मुदं B. ३ वृद्धाः BFH. ४ माला A. ५ वृद्धाः ACDEN. ६ शेषेषु गणेषु B. ७ करभादयोऽपि B. ८ तेऽत्र N. ९ वृद्धाः c. १० दाशी B. ११ ते N. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy