SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ छन्दोऽनुशासनम् । शेषजाती मतिनायि मालाचित्रं टैः॥ ३८१॥ मस्तगणत्रयं नगणद्वयं यगणत्रयं च एषां समाहारद्वन्द्वः। टैरिति एकादशभिर्यतिः । यथापान्थाः शीघ्रं यात नातः परं वः क्षणमपि यदिह शुभं तत्र गत्वाश्रयध्वं, कान्तां नो चेदत्र तां देवतां स्वां । स्मरत सपदि भवतो हन्त संहर्तुकामः । "कालोऽयं जीमूतनामाभ्युपैति ___ स्तनितबधिरितमहीमण्डलश्चण्डविद्युन्-, मालाचित्रास्त्रप्रहारीति दूरात् ___कथयति शिखिनिवहस्तारकेकारवेण ॥ ३८१.१ ॥ २७॥१॥ म्तौ रतौ निसल्गाः प्रमोदमहोदयो घछटैः ॥ ३८२ ॥ मतयता नगणत्रयं रसलगाश्च । घछटैरिति चतुर्भिः सप्तभिरेकादशभिश्च यतिः । यथाकाप्युगीवा "प्रास्थित बद्धोत्कण्ठं करकलितशिथिलवसना दधाव च काचन, स्तम्भं दधे कापि च काचिच्चासी दतिशयितबहलपुलकाङ्करोल्लसिताङ्गिका । काचिच्चक्रे भूषणमङ्गे काचित् तिलकमकृत नवमलिके' चुलुक्यमहीपतौ, यात्रां कृत्वोपेयुषि" पौरस्त्रीणां समजनि निरवधिरधुना प्रमोदमहोदयः ॥ ३८२.१ ॥ __ यथा वा"वन्द्या देवी पर्वतपुत्री नित्यं मधुमधुरकमलवदना पुरन्ध्रयधिदेवता, देवैः स्तुत्या किंनरगेया भक्त्यावरचरितमहिषमर्थनी जगत्रयनायिका । सिद्धैर्यया केसरियाना कामं रणचतुररसिकहृदया त्रिलोचनवल्लभा, वीरैः पूज्या दर्पणपाणिनूनं गुणनिलयलटभललिता सतीषु धुरंधरा ॥ ३८२.२ ॥२९१॥ 1) पान्थाः शीघ्रमित्यत्र कालः कृतान्तः श्यामवर्णश्च । जीमूतनामा। इदं विशेष्यं न तु कालस्य विशेषणं इदं हि क्रियते। 2) काप्युट्टीवेत्यत्र प्रास्थितेति-चचाल। 3) स्तम्भं जाड्यम् । 4) अलिके भाले। 5) उपेयुषि आगते। 6) वन्द्या देवीत्यत्र पर्वतेति-गौरी । पुरन्ध्यधीति-पुरन्ध्रीणामधिदेवता सर्वोत्तमरूपेत्यर्थः। अवरचि (r.चरि for चि तेति-दुश्चरितम् । गुणेति - गुणनिलया चासौ लटभललिता चेति विशेषणकर्मधारयः । लटभं प्रधानम् । १ वक्ष्यणमपि A. २ निःर्सल्गाः F; निरसल्गा GHP. ३ पुरन्ध्रयपि देवता N. ४ मथिनी 0. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy