SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ छन्दोऽनुशासनम् । त्यौ भौ नीगौ हंसपदा जैः ॥ ३७४ ॥ तयभभा नगणचतुष्टयं गुरुश्च । जैरिति दशभिर्यतिः । यथा - अम्भोजवनं व्याकोशमिदं सलिलमतिविमलमिति” वनसरसि, भ्रान्तोऽपि हि मा कार्षीर्गमनं यदिह विचरति हरिणशिशुनयना । तस्या अतिरम्यां वीक्ष्य गतिं " निरुपमितिमतिशयमधिगतवतीं, ह्रीतः सपदि त्वं हंस पदात् पदमपि चलसि न खलु नियतमदः ।। ३७४.१॥ न्जज्या नीगौ चपलम् ॥ ३७५ ॥ नजजया नगणचतुष्टयं गुरुच । यथा क्वचिदपि चूतलतामुपभुङ्क्ते कचिदपि पिबति विचकिललतां, क्वचिदपि चुम्बति माधविकां च कचिदपि परिसरति च लवलीम् । बहुविधपुष्पसमृद्धिनिधाने विलसति नवतरमधुसमये, "चपलभुजंगविलासमजस्रं कलयति " मधुकर इह मुदितः ।। ३७५.१ ॥ २५४ ॥ उत्कृतौ मौ तो निरसैल्गा भुजंगविजृम्भितं जटैः ॥ ३७६ ॥ ममता नगणत्रयं रसलगाः । जटैरिति अष्टाभिरेकादशभिश्च यतिः । यथा - क्वापि स्वैरं क्रूरक्रीडन्महिषशतमचकित” - चरत्कुरंगकुलं क्वचित्, कापि क्रीडाव्यप्रक्रोड" क्वचिदपि मदजडविहरन्मतंगजसंकुलम् । सिंहक्ष्वेडारौद्रं क्वापि क्वचिदपि विषैविषममहाभुजंगविजृम्भितं”, श्री चौलुक्यक्षोणीनाथ स्फुटमजनि भवदरिमहीभुजामधुना पुरम् ॥ ३७६.१॥ मनूसगगा अपवाहो झचचैः ॥ ३७७ ॥ मो नगणषङ्कं सगगाश्च | झचचै रिति नवभिः षड्भिः षड्भिश्च यतिः । यथा - "यः श्लाघ्यः प्रतिदिनमपि मदनदहनगरुडगमनचतुरास्याद्यैर, गेयो यः सुरपतिपरिषदि च किमपि मुदितविबुधरमणीवृन्दैः । चौलुक्यान्वयजलनिधिहिमकर कियदिह तव नृपवर तस्यैतद्, यत्सर्वं कृतमरिबलमपरथमपभटमपगजमपवाहं च ।। ३७७.१ ।। 1) अम्भोजवनमित्यत्र इतिरत्र हेत्वर्थे । 2 ) निरुपमेति - निर्गता रूपेण (उप) मितिर्मानो (नं) यस्मात्स तम् । 3 ) क्वचिदपीत्यत्र भुजंगो गणिकापतिस्तस्य चेष्टाम् । 4 ) भ्रमरः मुदितो हर्षे प्राप्तः सन् करोति । 5) क्वापीत्यत्र अचकितेति - शून्यत्वादिति शेषः । 6 ) क्रोडो वराहः । 7 ) विषविषेति - क्रीडितम् । 8 ) यः श्लाघ्य इत्यत्र मदनेति - ईश्वरकृष्णब्रह्मादिभिः । Jain Education International १ गुश्च A ; २ निरुपम मितिमति AC ३ निरस्गा C. ४ महिषशभ्रमचकितवर कुरंगकुलं N. ५ विषमतर P; विष dropped in D; ६ झचचरिति N. ७ चतुरास्यार्यैर् N. ८ किमुपि A. For Personal & Private Use Only www.jalnelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy