SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः। "रचयतु जन्मस्नानविधौ वस्त्रिजगदधिपचरमजिनपतेः, सुरपतितुङ्गोत्सङ्गनिषण्णस्य किमपि बलविलसितमतुलम् । मृदुचरणाङ्गुष्ठाग्रसमाक्रान्तिविधुरचलितकनकशिखरि-, स्फुटभयसंभ्रान्तामरयक्षोरगपति' निखिलदुरितदलनम् ॥ ३७०.१ ॥ म्सौ सौ तौ भ्रौ विभ्रमगतिः॥ ३७१ ॥ मसजसततभराः । यथादृष्ट्वा त्वत्पृतनातुरंगमखुरोद्भूतं धरित्रीरैजो गगनाङ्गणे, "तत्तद्भूतिमतीं विहाय सपदि वां राजधानीमपि "प्रियजीविताः । गच्छन्तोऽनुगिरीन् पलायनविधिप्रत्यूहहेतुं मुहुः सहचारिणां, दाराणां "कलहंसविभ्रमगति निन्दन्ति चौलुक्यचन्द्र तवारयः ॥ ३७१.१ ।। २४॥७॥ अभिकृतौ भ्मस्भनीगाः क्रौञ्चपदा उङजैः॥ ३७२॥ भमसभा नगणचतुष्टयं गुरुश्च । ङङजैरिति पञ्चभिः पञ्चभिरष्टेभिश्च यतिः । यथा-- "प्रोज्य पुराणि त्वद्भययोगान्नृपवर भवदरिरतिशयविधुरो", दूरमरण्यं प्राप्य "कलत्रैः सह समजनि "गतिरयवशतृषितः । सारसनादात् स स्वयमादौ "प्रसरति कियदपि भुवमथ सहसा, प्रेक्ष्य चकोरक्रौञ्चपदाकां ध्रुवमिह सरिदिति निगदति दयिताः ॥३७२.१ ।। . नीसभिगा हंसलयो जछैः ॥ ३७३ ॥ नगणचतुष्टयं सगणो भगणत्रयं गुरुश्च । जछैरिति अष्टभिः सप्तभिश्च यतिः । यथा1"भवशतविरचितनिरवधिसुकृतस्त्वत्कृतधर्मपथोऽधिगतः, "प्रणयिनि मयि कुरु तदसमकरुणां पश्य सुधारसपूर्णदृशा । अभिमततरमिति वितर जिनपते "शक्रफणीन्द्रनरेन्द्रनुत, प्रतिदिनमपि तव पदकमलयुगे देव भवेयमहं सलयः ॥ ३७३.१ ॥ - 1) रचयतु जन्मेत्यत्र वः युष्माकं दुरितदलनं वीरजिनस्य बलविलसितं रचयतु निष्पादयतु इति क्रियासंबन्धः। 2) दृष्ट्वा त्वत्पृतनेत्यत्र तत्तत्संपत्संपूर्णाम् । 3) प्रियं जीवितं येषां ते प्रियजीविताः। 4) कलहंसवद्वाजहंस इव विभ्रमेण युक्ता गतिस्ताम् । 5) प्रोज्झ्य पुराणीत्यत्र त्यक्त्वा भवद्यसंबन्धात् । 6) विधुरो दीनः। 7) कलत्रैदीरैः। 8) गमनवेगवशतृषातुरः। 9) प्रसरति त्वत्कटकागमनबुद्धया स्त्रीणां (स्त्रियः) पत्रान्मुक्त्वा स्वयं अग्रे आगच्छति । 10) भवशतेत्यत्र भवानां शतम्। 11) प्रणयिनीति-नेहभाजि । 12) शक्रेत्यादि इन्द्रधरणेन्द्रचक्रवर्तिनुतः । १ पतिः A. २ पृथना N; ३ धरणीरजो B; ४ नु गिरिं N. ५ अष्टभिः dropped in P. ६ विर dropped in N. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy