SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ छन्दोऽनुशासनम् । परिमलविलुठन्मधुकरकवरी-"विरचितनिरवधिशोभाम् , अभिनवकुसुमस्मितसुभगरुचिं मृदुतरकिसलेयपाणिम् । इह मधुसमये विलसति नियतं मनसिजशरपरिविद्धस् , तनुललितलतायुवतिमयमहो कलयति मलयसमीरः ॥ ३६६.१ ॥ नौ रूमघमाला ॥ ३६७॥ नगणद्वयं रगणषट्वं च । यथात्रिभुवनविजयाय बद्धाभिमानस्य "शृङ्गारयोनेः प्रयाणक्षणे, कनकघटितदण्डमेतत्किमाभाति नीलातपत्रं लसत्सर्वतः । "नवतपविगमश्रिया दीप्रदीपेऽथ किं कज्जलार्थ धृतं 'कपर, "भ्रममिति विदधाति वीक्ष्योन्नतां मेघमालां जनो विद्युतालंकृताम् ॥३६७.१ ॥ भृङ्गाब्जनीलालकेत्येके ॥ ३६७.१ ॥ भृः सुभद्रम् ॥ ३६८॥ भूरिति भगणाष्टकम् । यथा शौर्यमृगेन्द्र चुलुक्यनरेन्द्र महत्त्वगिरीन्द्र गभीरिमसागर, दोष्णि चिरं निखिलाचलसिन्धुयुतं वसुधावलयं तव बिभ्रति । अद्भुतभारपरिश्रममुक्ति-"समुच्छ्रसितो भुजगाधिपतिस्त्वयि, __ "शंसति संततमेष सुभद्रमखण्डमहोदयमस्त्विति संप्रति ॥ ३६८.१ ॥ भितनिसा द्रुतलघुपदगतिः ॥ ३६९ ॥ भत्रयं तगणो नत्रयं सश्च । यथा "मुञ्चत नपुरकङ्कणकाञ्चीः क्वणितभरविरचितकलकलाः, ___ स्वीकुरुताशुगतिं समयोऽयं न खलु समदगजललितगतेः । संभ्रमवान् स्ववधूरनुशासद्गिरिसरिद भिमुखमतिकृपणः", संप्रति सिद्धपते तव याति ""द्रुतलघुपदगति रिपुनिवहः ॥ ३६९.१ ॥ न्यौ तौ निसौ संभ्रान्ता ॥ ३७० ॥ नयमता नगणत्रयं सश्च । यथा 1) परिमलेत्यत्र कबरी केशपाशः। 2) त्रिभुवनविजयेत्यत्र शृङ्गारेति-कामस्य । 3) नवतपेतिनवीनप्रावृलक्ष्म्या । 4) कर्परं कोसिउं इति प्रसिद्धम्। 5) भ्रम भ्रान्तिम् । 6) शौर्यमृगेन्द्रेत्यत्र समुच्छेसितः उच्छासं प्राप्तः। 7) शंसति प्रशंसति । 8) मुञ्चत नूपुरेत्यत्र पलायनसमये कलकलेतिशब्दानुकरणम्। 9) अतिकृपण इति-अतिदीनः। 10 द्रुतेति-क्रियाविशेषणम् । . १ अभिनय N. २ किशलय B. ३ कलयसमीरः A. ४ दण्डमेतत् repeated in A. ५F AN. ६ सुभद्रकं G. ७ समुद्भसितो N. ८ कृपणान् N. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy