SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः। श्रयतां नृपकुमारपाल तव दर्शनत्वरितया व्यधायि यत् , पादतामरसयोः सुवर्णकटके कराम्बुरुहयोश्च नूपुरे । हारदाम च नितम्बबिम्बफलके भृशं हृदि च रत्नमेखला, निर्ममे जतुरसोऽलिकेऽधरदले च "चित्रकमधीरचक्षुषा ॥ ३६२.१ ।। भ्मौ स्भौ निल्गाश्चपलगतिः॥ ३६३ ॥ भमसभा नत्रयं लघुगुरू च । यथा भूमिभृतामङ्केषु विलासं स्वरुचिसदृशमति" हि विदधती, ___ सत्वरमानीता स्फुटमुच्चैः पटह इव नदति यशसि निजे। "दुर्ललिता स्तम्बेरमकान्तेव नृपवर "दृढतरगुणगणैः, साधु भुजस्तम्भे भवता श्रीरतिचपलगतिरिह निगडिता ॥ ३६३.१ ॥ ज्सौ सौ यिल्गा वृन्दारकम् ॥ ३६४ ॥ जसजसा यत्रयं लघुगुरू च । यथातदंहिपरिताडनं सरभसं कचाकर्षणं स्वेच्छया चोर्जितं, मुखाम्बुरुहचुम्बनं प्रति मुहुर्नखैरणं निर्विशकं जवात् । नरेन्द्रतिलक "त्वदीयपरिपन्थिनां तुल्यकालं तदेतत्कृतं, "शिवाभिरिह "संगरे "गगनसीनिं "वृन्दारकप्रेयसीभिस्तथा॥ ३६४.१॥ २३१७ ॥ संकृतौ तौ न्सौ भौ न्यौ तन्वी हैः॥ ३६५ ॥ भतनसमभनयाः । छैरिति द्वादशभिर्यतिः । यथादन्तमयूखाः शशधररुचयो वागमृतं 10 रतिरमणधनुर्धर् , लोचनलक्ष्मीस्तुलयति कमलं नूतनविद्रुमसुहृदधरश्च । चम्पकगर्भप्रतिकृति च वपुहंसगतेरनुहरति च "यातं, वच्मि विशेष कमपरमथवा रम्यमहो किमिव हि न हि तन्व्याः ॥३६५.१ ॥ नौ नौ नौ न्यौ ललितलता छछैः ३६६ ॥ ननभनजननयाः । छछैरिति सप्तभिः सप्तभिर्यतिः । यथा worrnmoon 1) श्रूयतां नृपेत्यत्र चित्रकं तिलकं चपलनेत्रया। 2) भूमिभृतामित्यत्र अति हि भृशार्थेऽखण्डमन्ययम्। 3) दुर्ललिता उत्कटहस्तिनीव। 4) दृढतरेति-गुणा औदार्यादयः, पक्षे रज्जवः । नियन्त्रिता । 5) तदंहिपरीत्यत्र त्वद्वैरिणां समकालम् । 6) शिवाभिः क्रोष्ट्रीभिः। 7) संगरे संग्रामे । 8) गगनसीनि आकाशप्रदेशे। 9) वृन्दारकेति-देवीभिः। 10) दन्तमयूखा इत्यत्र रतिरमणेति-कामधनुर्वद् भ्रूः । 11) यातं गमनम् । .१ जतुरसोलके P. २ लगौ च A. ३ दृढतरगुणैः साधु० N. ४ लगौ च A. ५ दारुणं ABODN. ६ तदेव कृतं N; ७ च added in N. ८ मयूषाः G, ९धनुभूलो० N. १० रम्यमहा N. . Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy