SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ . छन्दोऽनुशासनम् । निरयमहान्धकूपमसमान्धकारभरदुर्विलोकमतुलं, ___ निपतितगाढमोहपटलान्धजन्तुविविधप्रलापतुमुलम् । प्रवचनचक्षुषेक्षत इमं चिराय तनुभृत्तथापि बलवच-, चपलतरेन्द्रियाश्वललितैर्विकृष्ट" इह तत्क्षणानिपतति ॥ ३५८.१ ॥ अत्र केचित्सप्तमभगणस्थाने जगणमिच्छन्ति ॥ ३५८.१ ॥ मौ तो नील्गा मत्ताक्रीडा जडैः ॥ ३५९॥ ममता नगणचतुष्टयं लघुगुरू च । जबॅरित्यष्टाभिः पञ्चभिश्च यतिः । यथा "हस्ताक्षेपैर्वारंवारं विदलयति किल निकरमवनिरुहां, __ पादानुच्चैः क्षोणीन्द्राणां विघटयति दशनकुलिशविकषणैः । वेगावेगात्पादन्यासैनमयति च फर्णपटलमुरगपतेर् , इत्थं मत्ता क्रीडामात्रं विरचयति नृपवर तव करिघंटा ॥ ३५९.१ ॥ ताज्जूल्गाः शङ्खः ॥ ३६०॥ तगणात्परं जगणषटुं लघुगुरू च । यथा चौलुक्यनरेश्वर वैभववासव वीर गभीरिमवारिनिधे, सौन्दर्यमनोभव कान्तिनिशाकर सेवककल्पतरो भवतः । को नाम गुणानिह संकलयेत् किल वच्मि तु किंचन ते यशसां, __"संपर्कमवाप्य स "शङ्खधरोऽभवदद्रिसुताकमितुः" सदृशः ॥ ३६०.१॥ . नाद्धंसंगतिः ॥ ३६१ ॥ नगणात्परं जगणषट्वं लघुगुरू च । यथा मदनगजेन्द्रमहोदयमादधती सहसा विमलप्रसरल्-, लवणिमसिन्धुरनिद्रितनीलसरोरुहचारुलसन्नयना । विशदतराम्बरसंपदियं रजनीकर बिम्बमुखं दधती, शरदिव संश्रितहंसगतिर्युवतिर्विदधाति न कस्य मुदम् ॥ ३६१.१ ॥ ___महातरुणीदयितमित्यन्ये ॥ ३६१.१॥ त्री नौ ल्गाश्चित्रकम् ॥ ३६२ ॥ रनरनरनरलगाः । यथा 1) निरयेत्यत्र विकृष्ट आकर्षितः। 2) हस्ताक्षेपैरित्यत्र प्रसारणैः भनक्ति वृक्षाणां समूहम् । पादाः पर्यन्तपर्वताः । विघटयति चूर्णयति दन्तवज्रस्पर्शनैः। 3) चौलुक्येत्यत्र संबन्धं प्राप्य। 4 नारायणः । दिसता पार्वती तस्याः कमिता भर्ता शिवः तस्य समानः श्वेतवर्ण इत्यर्थः। १श्च ललितैः N. २ फणिप. N. ३ कररिघटा A. ४ धीर CDNP. ५ वंशगतिः GH.. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy