SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः। स्तौ नौ सौ ौ महास्रग्धरा जछैः ॥ ३५४॥ सततनसररगाः। जछैरिति अष्टभिः सप्तभिश्च यतिः । यथा "अभि नागान्याति योऽयं स मम मम पुनर्यच्छिरो” हुंकरोति, प्रचैलोऽयं यत्कबन्धः प्रहरति स तु मे प्राणनाथोऽस्तु सख्यः । दलयन् यो दुष्टभूपानहमहमिकया स्वर्गसीमन्तिनीनां, परिशुश्रावेति वाचो वरवरणमहास्रग्धराणां रणेषु ॥ ३५४.१ ॥ भृगौ मदिरा ।। ३५५॥ भृगाविति भगणसप्तकं गुरुश्च । यथाह्रीविनियत्रणविघ्नमपाकुरुतेऽभिनवावतरद्वयसां, प्रौढपुरन्ध्रिजनस्य तथा तिरयत्यपराधपदं सहसा । कोपपदेन च गोत्रपरिस्खलितं न च कारयते तदसौ, कामसखी मदिरेह "सतर्षमभाजि चिरं किल कामिजनैः ॥ ३५५.१ ॥ लताकुसुममित्यन्ये ॥ ३५५.१ ॥ मत्यनीगा वरतनुः ॥ ३५६॥ मतया नगणचतुष्टयं गुरुश्च । यथा "चक्षुःसौन्दर्य मृगवध्वां परभृतयुवतिषु मधुरगिरं, यातं हंसीघु स्मितमुद्बद्धनवविचकिलकुसुमततिषु । रोलम्बश्रेण्यां कचलक्ष्मी वदनरुचिमपि विकचकमले, न्यासं कृत्वा सा खलु याता कचिदपि मम वरतनुरधुना ॥ ३५६.१ ॥ म्सौ सौ सौ गौ दीपार्चिष्ठैः ॥ ३५७॥ मसजसजसजगाः। ठैरिति द्वादशभिर्यतिः । यथा... प्रायो दुष्कृतकर्मसु स्वयममी प्रयान्ति पिशुनाः सहायतां, ___ यद्वत्तद्वदनिन्दनीयसुकृतक्रियासु भृशमन्तरायताम् । वह्नौ संततजन्तुसंकुलमहावनप्लषि सखा समीरणो, दीपार्चिष्यखिलोपकारिणि भवत्यकाण्डकुपितान्तकः खलु ॥ ३५७.१ ॥ २२॥५॥ विकृतौ न्जौ भ्जी भ्जौ भ्लौ गोऽश्वललितं टैः॥ ३५८ ॥ नजभजभजभलगाः। टैरित्येकादशभिर्यतिः । यथा 1) अभिनागानित्यत्र नागान् हस्तिनोऽभि । समराङ्गणे युध्यमानेषु भटेषु सुराङ्गनानां परस्परं वचनप्रपञ्चः। 2) यस्य शिरः यच्छिरः। 3) मस्तकहीनं वपुः कबन्धः। 4) सतर्षमिति-सतृष्णम् । 5) चक्षुःसौन्दर्यमित्यत्र मृतस्त्रीकः पुमान् कंचित् प्रति वक्ति मम कान्ता एतानि वस्तूनि एषु मुक्त्वा गता। १one म dropped in N; २ प्रबलोयं ARP; प्रभवोयं B. ३ हसीषु N. ४ कुसुमजतिषु N. ५ जगौ N. ६ दीपार्चिः है: N. ७ गश्च ललितं N. ११ छन्दो० Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy