________________
छन्दोऽनुशासनम् ।
न्जभजिराः सिद्धिः ॥ ३५० ॥
नजभा जत्रेयं रव । यथासततनमत्पुरंदरशिरः शुचिरत्नकिरीटमालिका,
विमलमयूख शेखरितपादनखद्युतिजालशालिनम् । विपुलदयानिधिं "प्रणयिकल्पतरुं भजत जिनेश्वरं,
यदि "भवकातरस्त्वमिह वाञ्छसि सिद्धिमनुत्तमां सखे ।। ३५०.१ ॥ चित्रलता, रुचिरा, शशिवदना चेत्यन्ये ।। ३५०.१ ॥ नजी भ्रा वनमञ्जरी ॥ ३५९ ॥
गण जगणचतुष्टयं भरौ च । यथा
सह धनुषा समदो मदनः किल "शीतदीधितिमौलिना, सुहृदिह भस्म कृतस्तव दीप्तहुताशपिङ्गलया दृशा । इति हि मधो कुमते स्मर मा विचरान्तिके तरलभ्रुवां,
विरहजुषां सकलज्वलिताङ्गभृतां दधद् वन॑मञ्जरीः ॥ ३५१.१ ॥ त्री नौ रस्तरंगः ॥ ३५२ ॥
रनरनरनराः । यथा -
निर्मम भव विधेहि पञ्चपरमेष्ठिसंस्मरणमन्वहं,
संयमं कुरु भज क्षमां यदि समीहसे " सुखमनश्वरम् । यौवनं किल तडिल्लताचपलमभ्रचञ्चलमिदं धनं,
जीवितव्यमपि मारुताहतसरित्तरं गतरलं सखे ।। ३५२.१ ।। २१।८ ॥ आकृतौ भ्रौ नौ नौ न्गौ मद्रकं त्रैः ॥ ३५३ ॥ भरनरनरनगाः । त्रैरिति दशभिर्यतिः । यथा -
Jain Education International
देव जगत्रयैकतिलक प्रभो " प्रणयिलोककल्पविटपिन्,
पुण्यवतां "शिरोमणिपैदव्यभाजि जिननाथ तैरिह जनैः । ये विकचैश्चिराय चरणारविन्दयुगैमर्चयन्ति कुसुमैर,
मद्रकमन्दगीतिभिरभिष्टुवन्ति च चरित्रमन्त्रभवतः ॥ ३५३.१ ॥
1 ) सततनमदित्यत्र प्रणयिनो भक्ताः । 2 ) भवात्संसारात् कातरो भीतः । 3 ) सह धनुषेत्यत्र शीतदीधितीति - ईश्वरेण । 4 ) दीप्तेति - तृतीयलोचनेन । को भावः ? कन्दर्पो हि धनुषा बलवान् तद्धनुः शकलीकृतं स च विनाशितश्च । त्वं च तस्य मित्रम् | यदि ईश्वरेणैकेन लोचनेन प्रज्वालितः । किं चासां स्त्रीणां विरहयोगात् [अङ्गं] दाहानुषकमत एव त्वमपि मित्रबलाभावात् भस्मीकरिष्यतीति भावः । 5 ) अनश्वरं अविनाशि। 6) देव जगत्त्रयैकेत्यत्र भक्तभवि[क] कल्पमादप । 7) शिरोमणि० मुकुटभावं व्यभाजि टतम् ।
१ जगणत्रयं GNP २ वनमंजरिः N
३ अनश्विरं A. ४ पदं व्यभाजि NKP. ५ युग्मम ० 4.
For Personal & Private Use Only
www.jainelibrary.org