SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः। ७९ त्रौ भी ज्भौरः कथागतिः॥ ३४६॥ तरभनजभराः। छछैरिति वर्तते । यथा "केष्वप्यखर्वगर्वाद्विधुरितभुवनेष्वनर्गलगर्जितैर् , अम्भोधरेष्विवाशु श्रवणपथगतेष्वभूद्विनिमीलितम् । "आखण्डलस्य कामप्यभजत नयनासितोत्पलकाननं, प्रीतिं चुलुक्यचन्द्र प्रकृतनृपकथागते त्वयि तु क्षणात् ॥ ३४६.१ ॥ भ्रौ नौ नौ रो ललितविक्रमो औः ॥ ३४७ ॥ भरनरनरराः । रिति दशभिर्यतिः । यथा सद्गुणरत्नरोहणगिरे यशोधवलिताखिलाशामुख, द्वेषिवधूमुखाम्बुजविधो वयं किमिव वर्णयामस्तव । यस्य वशंवदत्रिभुवनश्चिरं विबुधसुन्दरीमण्डलैर् , जम्भरिपोश्चमत्कृतिरसं दधल्ललितविक्रमो गीयते ॥ ३४७.१ ।। मौ तनिसा मत्तक्रीडा जडैः ॥ ३४८॥ मद्वयं तगणो नत्रयं सश्च । जङरिति अष्टभिः पञ्चभिश्च यतिः। यथा नो जानीते कृत्याकृत्यं विलुठति च "धरणितलशयने, भूयो भूयो मूछौं धत्ते द्रढयति न शिथिलमपि वसनम् । "अर्थापेतं निःसंबन्धं वचनमपि वदति नदतितरां, मत्तक्रीडामाप्ता" बाला सुभग तव नवविरह विधुरा ॥ ३४८.१ ।। तनिसाश्चन्दनप्रकृतिः॥ ३४९ ॥ रजता नत्रयं सश्च । यथा दर्शनाद्यदीह संतापमपहरति तदपि बत "तया, नार्जितं धनं प्रभूतं जरसि सुखदमतिसरलतया । किं तु चन्दनप्रकृत्या सखि सततमपि फलरहितया, "दुर्भुजंगप॑ष्टया यौवनमिदमफलमहह गमितम् ॥ ३४९.१ ।। ____ 1) केष्वप्यखर्वे [ति]-केष्वपि भूपालेषु । 2) इन्द्रस्य सहस्रनेत्रकमलवनं त्वत्कथाश्रवणेन प्रीति प्राप यत्पूर्वमन्येषां दुर्दान्तराज्ञां कथाश्रवणेन मीलितं समभूत् । मेघगर्जारववत् । 3) नो जानीते इत्यत्र धरणीतलमेव शयनं यस्येति। 4) अर्थरहितमाकाङ्क्षाहीनम् । 5) आप्ता प्राप्ता। 6) नवीनविरहपीडिता। 7) दर्शनाद्यदीत्यत्र तयेति-प्रकृत्या। 8) दुष्टभुजंगपृष्टतया यथा दुष्टभुजंगः वञ्चनेन फलं नार्पयति । १ छछै: added in GH. २ ललिता० G; sātras 347-362 dropped in H. ३ दृढयति N.४पृष्टया P. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy