SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः। "गता लाक्षारागद्युतिरधरदलात्पत्रवल्ली विलुप्ता, कपोले पर्यस्तं तिलकमलिकतो लम्बितः केशपाशः । च्युतः कर्णोत्तंसः करमणिवलयं सस्तमस्यास्तथापि, प्रियेण "प्रत्यग्रः प्रथयति महतीं संगमो हन्त शोभाम् ॥ ३३८.१ ॥ नौ नौ तौ गौ चित्रमाला छचैः॥ ३३९ ॥ मरभनततगगाः । छचैरिति सप्तभिः षड्भिश्च यतिः । यथा"सा काश्त्यन्यमेवायमपि बत तां सारसौन्दर्यलक्ष्मीर्-, एषा चैतं वराकी तरुणनिवहोऽमूं च लावण्यपुण्याम् । एवं प्रत्यग्रकेलीकुशलललितैर्बद्धहासं वसन्ते, देवः पुष्पायुधोऽसौ रमयति रतिं दर्शयश्चित्रमालाम् ॥ ३३९.१ ।। सुप्रभेत्यन्यः॥ ३३९.१॥ नौ स्लौ म्यौ ल्गौ सद्रत्नमाला ङजैः॥ ३४०॥ मनसनमयलगाः । ङजैरिति पञ्चभिरष्टभिश्च यतिः । यथा सन्ध्यान्तें प्रतिदिशमियं समुदिता तारासतिः शोभते, "श्यामाया अभिसरणकेलिरभसाद्दष्टेव मुक्तावलिः। यद्वा व्योमनि मनसिजेन लिखिता जैत्रप्रशस्तिर्निजा, _ विस्फूर्जद्धनतमतमिस्रफणिनां सदनमालाथवा ॥ ३४०.१ ॥ भीरसल्गा नन्दकम् ॥ ३४१॥ भगणचतुष्टयं रसलगाश्च । यथा "अद्भुतसंगरसागरमन्थनसंभवां कलयन् श्रियं, ___ दोष्णि दधद्वसुधावलयं च कुमारपालमहीपते । त्वं बलिराजनियन्त्रणविश्रुतविक्रमः पुरुषोत्तमः, केवलमेष जगद्विजयी त्वद सिर्द्विषां न तु "नन्दकः ॥ ३४१.१ ॥ 1)गता लाक्षेति-चुम्बनेनेति शेषः। विलुप्तेति- अङ्गमर्दनेनेति । 2) प्रत्यग्रो नवीनः कथयति । 3) सा कालन्त्यन्यमेवेत्यत्र सा नारी अन्यं पुरुषं काम्यति । स तु पुमान् तां दयिताम् । पुनः एषा सारसौन्दर्यलक्ष्मीर्वराकी सती एनं प्रत्यक्षदृष्ट पुमांसम् । तरुणपुरुषनिवहः अमुं लावण्यपुण्यां एवंविधां अभिलषति । एवं नूतनकेलिनिपुणविलासैः बद्धहासं यथा भवति तथा कामः रतिं दयितां रमयति । 4) आश्चर्यमालां भनया रीत्या क्सन्ते दर्शयन्नित्यर्थः। 5) सन्ध्यान्ते प्रतिदिशमित्यत्र श्यामाया षोडशवर्षदेशीया कामिनी तस्याः। 6) भद्धतेत्यत्र संग्रामसमुद्रमथनोद्भवाम् । 7) नन्दको हर्षकरः । पक्षे विष्णोः खड्गस्य नन्दक इति नाम । यदाहुः-शङ्खोऽस्य पाञ्चजन्योऽङ्कः श्रीवत्सोऽसिस्तु नन्दक इति । १ छछैः G. २ चैतं वराका A; चैवं वराकी E. ३ रत्नमाला IGH. ४ तमतमिश्र DNP. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy