SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ छन्दोऽनुशासनम्। "आकल्पं कल्पयित्वामिनवमृगमदैरामुच्य” चे शिति-, क्षौमे कृत्वा विभूषां मरकतमणिभिर्गन्तुं प्रियगृहम् । औत्सुक्याद्यावदस्थात् पथि "मुखशशिना तावद्धर्ततमी, ज्योत्स्नी जातेति मूर्छामभजत सहसा कष्टं सुवदना ॥ ३३४.१ ॥ दशग्ला वृत्तम् ॥ ३३५ ॥ गुरुलघू दशवारानावृत्तौ वृत्तं नाम वृत्तम् । यथा*प्रीणिताखिलार्थिदानमूर्जितारिजिष्णुपौरुषं महर्षि-, चित्रकृजितेन्द्रियत्वमेवमद्भुतान् गुणान् दधन्नरेन्द्र । रामपार्थधुन्धुमारमुख्यपूर्वभूमिपालवृत्तमत्र, सत्यतां चिराय नीतवानसि त्वमुच्चकैश्चुलुक्यचन्द्र ॥ ३३५.१ ॥ स्भौ नौ म्यौ ल्गौ मत्तेभविक्रीडितं डैः ॥ ३३६ ॥ .. सभरनमयलगाः । डैरिति त्रयोदशभिर्यतिः। यथा उदयाद्रेः प्रसरन्नयं दिनपतिः प्रत्यग्रसन्ध्यातेप-, ___ स्फुटसिन्दूररुचिविसूत्रित-तमःसंदोहवल्लीवनः । तनुते "वाजिजवोल्लसत्कशपुरःक्रामत्सुपर्णाग्रज-, प्रतिकारोपरिवलादायतकरो मत्तेभविक्रीडितम् ॥ ३३६.१ ॥ नो भौ मः सौ ल्गौ मुद्रा टैः॥ ३३७ ॥ नभभमससलगाः। टैरिति एकादशभिर्यतिः । यथा अयमरण्यमहीष्वपि चूतावादकषायितकोकिला-, कलकलच्छलतश्विरमाज्ञामस्खलितामिह "वर्तयन् । कुपितमानवतीकलहानामन्तकरः पुरतः सखे, "मकरकेतुमहीपतिमुद्राव्यापरणं तनुते मधुः ॥ ३३७.१ ॥ - उज्ज्वलमित्यन्ये ॥ ३३७.१॥ यमौ नौ तौ गौ शोभा चछैः ॥ ३३८॥ यमननततगगाः । चछैरिति षड्भिः सप्तभिश्च यतिः । यथा 1) आकल्पं वेषं रचयित्वा। 2) आमुच्येति-परिधाय। 3) स्वमुखप्रभाभिः भूदेशे उयोतिते परलोकनाजातलजया गन्तुमशक्तेति भावः । 4) विसूत्रितेति-विनाशिता। 5) वाजिजवेति-वाजिजवाय वेगाय उल्लसन्ती कशा तर्जको यस्य स चासौ कामदरुणसारथिरुपरिष्टाद् बलादायतभुजः । 6) अयमरण्येत्यन्न वर्तयन् प्रवर्तयन् । 7) काममहीशप्रधानपदं आज्ञाज्ञापनमिति यावत् । १ वशिति क्षौमे N. २ तावद्वततमी ADEN. ३ दशल्पा F. दसल्गा G; ४ प्राणिता N. ५तपः स्फुट• A. ६ कसपुरः B. ७ बलादायत. स. ८ मुद्रयापरणं N. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy