SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः। रः सौ तो जौ ग ऊर्जितं जैः ॥ ३३० ॥ रससतजजगाः । जैरिति दशभिर्यतिः । यथा नेक्षसे किमहो "जलरिक्तां स्वामपि तावदिमां तनूं , __ नो निषेधसि चण्डमरीचेर्दुःसहमातपजृम्भितम्" । शारदे समयेऽपि तदस्मिन् पूरितपर्वतकन्दरा-, ण्यर्जितस्तनितानि दधानस्तोयद किं न हि लजसे ॥ ३३०.१ ॥ नभ्रसा जो गस्तरलम् ॥ ३३१॥ नभरसजजगाः। यथा श्रय विशुद्धधिया जिनेश्वरपादपङ्कजभृङ्गता", प्रकटय "प्रशमं भजस्व गुरूनधीष्व सदागमम् । विरचयार्थिजनं कृतार्थमिमं कुरुष्व तपः परं, तरलमायुरिदं गृहाण तदीयमेतदहो फलम् ॥ ३३१.१ ।। नौ भः सौ ज्गौ माधवीलता छैः ॥ ३३२॥ मरभससजगाः । छैरिति सप्तभिर्यतिः । यथा- . निःसामान्यं तवैतत् किमपि विराजति दक्षिणानिल, ___ "प्रावीण्यं यत्प्रगल्भामिह सहकारलतामनुव्रजन् । अश्रान्तं साभिलाषः स्पृशसि समुन्नयसे विधूनय-, __स्यालिङ्गस्याशु चुम्बस्यभिनवकोमलमाधवीलताम् ॥ ३३२.१ ।। सुगौ तरुणीवदनेन्दुः॥ ३३३ ॥ संगणाः षट् गुरुश्च । यथा मृगनाभिविनिर्मितपत्रलतावलिलाञ्छनधारी, जननेत्रचकोरमहोत्सवकृत्कमलद्युतिहारी। जगतां विजयाय निबद्धमतौ "झषलक्ष्मणि सैद्यो, ___ जयति प्रतिपन्नसहायपदस्तरुणीवदनेन्दुः ॥ ३३३.१ ॥ १९।१३ ॥ कृतौ नौ नौ रभौ ल्गौ सुवदना छछैः ॥ ३३४ ॥ मरभनयभलगाः । छछैरिति सप्तभिः सप्तभिर्यतिः । यथा 1) नेक्षसे इत्यत्र जलशून्याम् । 2) आतपविलसितम् । 3) श्रय विशुद्धत्यन्त्र भ्रमरत्वम् । 4 ) उपशमभावम् । 5) निःसामान्यमित्यत्र प्रवीणस्य भावः प्रावीण्यम्। 6) अषलक्ष्मणि कन्दएँ । १विनिर्मितः पत्र.N. २साद्या N. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy