SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ छन्दोऽनुशासनम् । विवृद्धिं गृध्राणां धिगुपकरणं शाखाप्रपञ्चो न ते, किमन्यत्ताल स्याद्विरलविरला छायापि नो शीतला ॥ ३२५.१॥ . त्रिर ज्सौ गो रतिलीला ॥ ३२६॥ त्रीन् वारान् जगणसगणौ गुरुथ । जसजसजसगाः । चचैरित्यनुवर्तते । यथा- . दुनोति बत तां कराम्बुजतले निवेशितकपोलां, किमप्यहरहस्तथा कथमपि त्वदीयविरहाग्निः । यथा वरतनुर्न पङ्कजदलैर्न मौक्तिककलापैर् , न चन्दनरसैन चन्द्रकिरणैः करोति "रतिलीलाम् ॥ ३२६.१ ।। म्तौ सौ रौ गः पुष्पदाम ङछैः ॥ ३२७ ॥ मतनसररगाः । ङछैरिति पञ्चभिः सप्तभिश्च यतिः । यथा सेयं साकाङ्क्षा त्वयि मृगनयना "संगताङ्गी विलासैर , __ लीलालोलभ्रर्दिवि कमलवनं कुर्वती नेत्रपातैः। हहो पश्यैतद्विरहविधुरया ते यया "सावहित्थं, __ प्रक्षिप्तं कण्ठे विकसितबकुलासूत्रितं पुष्पदाम ॥ ३२७.१ ।। म्तौ सौ तौ गो वञ्चितम् ॥ ३२८ ॥ मतनसततगाः । छैरिति वर्तते । यथा"कैश्चिञ्चार्वाकैरविदितसुकृतैः शूकाविमुक्तात्मभिः, कौलीभूयान्यैर्विहितपशुगणाघातैः परैर्यज्वभिः । जैने धर्मेऽस्मिन् सति सततकृपापीयूषपात्रेऽप्यहो, स्वच्छन्दं धूर्तेरहह कुटिलया बुद्ध्या जगद् वञ्चितम् ॥ ३२८.१ ॥ बिम्बितमित्यन्यः॥३२८.१॥ यमौ नौ रौ गो मुग्धकं चछैः ॥ ३२९॥ यमननररगाः । चछैरिति षड्भिः सप्तभिश्च यतिः । यथा परिभ्राम्यद्भङ्ग श्वसितपरिमलै पापाटलोष्ठं", गिरा लीलालापप्रणयमधुरया सदानन्ददायि । स्फुरत्यन्तश्चित्तं लिखितमिव सखे ममाद्यापि तस्याः, "प्ररूढप्रेमायाश्चकितमृगदृशो मुखं मुग्धकं तत् ॥ ३२९.१ ॥ 1) रतिलीला स्वास्थ्यम् । 2) सेयं सा इत्यत्र शोभिताङ्गी। 3) अङ्गमोटनादिभिः भाकारगोपनसहित ) कैश्चिदित्यत्र नास्तिकैरज्ञातपुण्यैः दयाहीनात्मभिः । कौलीभयेति-तापसीभय मयोंगिभिः। 5) परिभ्राम्यदित्यत्र जपापाटलवद् रक्कोष्ठम्। 6) चित्तस्यान्तः अन्तश्चित्तम् । 7) उत्पारागायाः। मुग्धकं मनोहरम् । १ पदैर्य. N. २ बिम्बिलं A; विचितं N. ३ भ्राम्यद्भङ्ग N. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy