SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः। दंष्टालो नवलग्नमौक्तिकमणिस्तोमैरसृग्लेखया. जिह्वालः करवाल एष तनुते शार्दूलविक्रीडितम् ॥ ३२१.१ ॥ म्सौ सौ न्जौ गो वायुवेगा॥ ३२२॥ मसजसनजगाः। 'ठेरिति वर्तते । यथा "त्यक्त्वा पुत्रकलत्रबन्धुसुहृदां व्यतिकरमञ्जसा, नित्यं संस्मर वीतरागचरणाम्बुरुहयुगं "रहः । हहो चित्त चिरं प्रसीद किमिदं न हि हतजीवितं, जानीषे घनवायुवेगनिहताभ्रपटलगत्वरम् ॥ ३२२.१ ।। यमौ सौ रौ गो मेघविस्फूर्जिता चचैः॥ ३२३ ॥ यमनसररगाः । चचैरिति षड्भिः षड्भिश्च यतिः । यथा "निरन्धानस्तापं जगति कलयंश्चण्डकोदण्डदण्डं, पदं व्यातन्वानः सततमखिलक्ष्माभृतां चोपरिष्टात् । निकामं दुर्धर्षा दिशि दिशि समुल्लासयन् वाहिनीश्च, त्वमुच्चैश्चौलुक्येश्वर घटयसे मेघविस्फूर्जितानि ॥ ३२३.१ ॥ रम्भेति स्वयंभूः ॥ ३२३.१ ॥ यमौ सौ जौ गो मकरन्दिका ॥ ३२४ ॥ यमनसजजगाः। चचैरिति वर्तते । यथा.. इमां बाला त्रासाकुलमृगवधूविलोलविलोचनां, किमु त्वं निःशङ्को व्यथयसि मुहुर्वियातविचेष्टितैः । "परिक्षोदं चण्डैर्मुसलपरिषैः सहेत न मालती, मृदुभ्राम्यशृङ्गीपदपरिचयाद्गलन्मकरन्दिका ॥ ३२४.१ ॥ रमौ सौ तौ गश्छाया ॥ ३२५॥ यमनसततगाः । चचैरिति वर्तते । यथा "फलं कालाक्रान्तं कुसुममरसं पत्रं न भोगास्पदं, ___ बहिस्तत्कॉर्कश्यं किमपि सहजं निःसारमन्तर्वपुः । 1) त्यक्त्वा पुत्रेत्यत्र मित्राणां संबन्धम् । 2) रहः एकान्ते वनमध्ये इत्यर्थः। 3) मेघसमूहवत् गत्वरं विनाशि। 4) निरन्धानस्तापमित्यत्र जलदविचेष्टितानि । यथा मेघो हि तापं निरुणद्धि अयमपि अन्येषां राज्ञाम् । खड्गं पक्षे इन्द्रधनुः । क्ष्माभृत् राजा पर्वतश्च । वाहिनी कटकं नदी वा । 5) इमां बालामित्यत्र धृष्टविचेष्टितैः। 6)चूर्णभावम् । 7) फलं कालाक्रान्तमित्यत्र हे ताल तव फलं कालदोषदूषितं धिक् । नीरसं कुसुमं धिक् । न भोगयुक्तं पत्रं धिक् । बहिस्तत् प्रसिद्धं कार्कश्यगुणं प्रकृतिभवं धिक। अन्तर्मध्ये निःसारगुणं धिग विवृद्धं । १ छैरिति N. २ बन्धुकलत्रपुत्र A. ३ कार्कश्ये N. १० छन्दो Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy