SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ छन्दोऽनुशासनम् । "यदि प्राप्तो बन्धं यदि विरहितो विन्ध्याचलभुवा, __वियुक्तः कान्ताभिर्यदि च तदपि स्तम्बरमपते । नरेन्द्रस्ते पूजां रचयति सदा किं चैष भवता, रणक्रीडामैत्री घटयति ततो मा गाः शुचमिमाम् ॥ ३१७.१ ॥ सौ म्तौ भ्रौ हरिणीपदं चधैः॥ ३१८॥ ... नसमतभराः । चधैरिति षड्भिश्चतुर्भिश्च यतिः । यथा "अधिगुणधनुर्दण्डं पश्यल्लुब्धकं गहने वने, सरभसमपक्रामन्नयङ्कश्चिन्तयन्निति "ताम्यति । सरसमधुरोद्गारैर्गीतैर्वा गुराभिरिव प्रिया-, ऽहह निगडिता दत्ते नैषा सांप्रतं हरिणी पदम् ॥ ३१८.१ ॥ भीन्या भङ्गिः ॥ ३१९ ॥ भगणचतुष्टयं नयौ च । यथा मा कुरु संपदि संमदमापदि विसृज विषादं, __दीनजनेषु कृपां कुरु संस्मर चिरपुरुषाणाम् । संत्यज पापचरित्रमुदश्चय" सुचरितमालाम् , अद्भुतभङ्गिरियं पुरुषोत्तमसरणिरनिन्द्या ॥ ३१९.१ ॥ विच्छित्तिरिति कश्चित् ॥ ३१९.१॥ स्जौ स्जौ त्रौ बुबुदम् ॥ ३२०॥ सजसजतराः । यथा "असमं धन्नयपयो गभीरमध्यः सनातनो, विमलो जयत्यविरतं जिनेन्द्र सिद्धान्तवारिधिः । अतिपेशलैर्गम"गणैस्तरंगिते यत्र सर्वदा, क्षणदृष्टनष्टतनुभिः कुदृष्टिभिर्बुबुदायितम् ॥ ३२०.१ ॥ अतिधृत्यां म्सौ सौ तौ गः शार्दूलविक्रीडितं ॥ ३२१ ॥ मसजसततगाः । 'ठेरिति द्वादशभिर्यतिः । यथा "क्ष्माभृत्पुंगव कोशकन्दरमुखान्निर्गत्य ते संगर-, क्रीडासून्मदवैरिवारणघटाकुम्भस्थलीः पाटयन् । 1) यदि प्राप्त इत्यत्र स्तम्बेरमेति- हे हस्तिपते । भवता कृत्वा संपादयति । एतेन उक्तिद्वयेन गजस्य महत्त्वमारोप्यते । 2) अधिगुणेत्यत्र गुणमधिरूढो धनुर्दण्डो यस्येति तं व्याधं न्यङ्घहरिणः। 3)खेदं करोति । 4) उदञ्चयेति - पुष्टिं नय । सरणिर्मार्गः । संपदि आनन्दो न क्रियते विपदि विषादो नेत्यादिलक्षणा भद्धता। 5) असममित्यत्र असाधारणत्वम् । नया नैगमाद्यास्तद्रूपं पयस्तेन गभीरं गम्भीरं मध्यं मध्यप्रदेशो यस्येति । नित्यस्थितिभागीपेक्षया। 6) सदृशपाठसमूहैः । पूर्व दृष्टाः पश्चान्नष्टाः दृष्टनष्टास्तैरिति क्षणक्षयवादिभिः स्थासकायितम् । 7)क्ष्माभृत् इत्यत्र राजानः पक्षे पर्वताः तेषु पुंगवो मुख्यः। १शुचिमिमां D; शुभमिमां N. २ sātras 318-323 dropped in H. ३ छैरिति N. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy