SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः। कुङ्कुमारुणपीवरस्तनचक्रवाकयुगाञ्चिता, केलिसिन्धुरिवोज्वला मदनस्य राजति कामिनी ॥ ३१३.१ ॥ मालिकोत्तरमालिका वेत्यन्ये ॥ ३१३.१ ॥ नौ रीनिशा डैः॥ ३१४॥ नद्वयं रचतुष्टयं च । डैरिति त्रयोदशभिर्यतिः । यथा "मलयजरसलिप्तरम्याङ्गभाजां सिते वाससी, __शरदि हृदि च बिभ्रतीनां विशुद्धां नवैकावलीम् । विकचकुमुदकर्णपूराश्चितानां कुरङ्गीदृशां, हिमरुचिकिरणावदाताभिसर्तुं निशा प्रेयसी ॥ ३१४.१ ॥ तारकेत्यन्ये ॥ ३१४.१॥ नौ सौ त्यो पङ्कजवक्त्रा घझैः ॥ ३१५ ॥ ननससतयाः । घरिति चतुर्भिर्नवभिश्च यतिः । यथा इह किमु विलसति सर्वऋतुश्रीः किं ने मृगाक्षी, बहुजनजडिमविजृम्भणहेतुः कुन्दैरदा वा । अभिनवमृदुतरपल्लवपाणिः संभृततृष्णा, समुदितनिबिडपयोधरभारा पङ्कजवक्त्रा ॥ ३१५.१ ॥ लनभ्साः सुरभित्रि ॥ ३१६॥ सनजनभसाः। 'त्रिरिति त्रीन् वारान् पञ्चभिर्यतिः । पञ्चभिः पञ्चभिः पञ्चभिश्च यतिरित्यर्थः । यथा स्फुटदुज्ज्वलबकुलाकुलमधुपावलिरसितैः, ..पवनाहतलवलीदलपटलैरतिचपलैः । मदने प्रियसुहृदि प्रतिभुवनं कृतविजये, "सुरभिर्बुवमिह गायति परिनृत्यति मुदितः ॥ ३१६.१ ॥ यमौ सौ सौ क्रीडा चचैः॥ ३१७॥ यमनसतसाः। चचैरिति षभिः षड्भिर्यतिः । यथा ... "स्फटट 1) मलय[जरसेत्यत्र कर्णपूरेति - कर्णाभरणम् । कुरङ्गीदृशां स्त्रीणाम् । 2) इह किमु विलसतीत्यत्र हेमन्ते शीतेन जाड्यं भवति । स्त्रीपक्षे जनालस्यम् । शिशिरे कुन्दाः पुष्पन्ति । वसन्ते पल्लवाः निष्पद्यन्ते । ग्रीष्मे तृष्णा भवति पक्षेऽभिलाषः । प्रावृषि पयोधरा मेघाः पक्षे स्तनौ । शरदि कमलानि विकसन्ति पक्षे वदनसरसीरुहमिति भावः। 3) स्फुटदुज्वलेत्यत्र मदने कामे। 4) सुरभिर्वसन्तः।' २चेत्यन्ये F: मालिकावित्यन्ये N. २ किं तु N. ३ कन्दरदावा N. ४ त्रि. GN. ५त्रिरिति N. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy