SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ छन्दोऽनुशासनम् । "नष्टं त्यक्तमिथःप्रतीक्षणरसैः सारंगमिथुनैर् , ___ यातं विस्मृतशृङ्गभारविधुरैर्वाध्रीणसकुलैः । लीनं पल्वलपङ्क एव सहसा क्रौडैनैति चेत् , कान्तींचाटुविधित्सयापि हि भवान् शार्दूल ललितम् ॥ ३१०.१ ॥ म्तन्जभ्राः कुरङ्गिका ङछैः॥ ३११॥ मतनजभराः । छैरिति पञ्चभिः सप्तभिश्च यतिः । यथा "अस्या वक्त्रेन्दौ विजयिनि चिराय लाञ्छनवर्जिते, प्रालेयांशो त्वं स्फुरसि दिवि धृष्ट नित्यमचेतनः । साकूतालोकाद्भुतनयनकेलिनिर्जितलोचना, याऽरण्ये तस्थावुचितचतुरेह सैव कुरङ्गिका ॥ ३११.१ ॥ न्सौ मी यावनङ्गलेखा चडैः॥ ३१२ ॥ नसममययाः । चडैरिति षड्भिः पञ्चभिश्च यतिः । यथा "प्रियसखि मधु मा स्मावज्ञासीर्मानयनं यथावत् , ___ तव हि बकुले क्रीडामित्रेऽस्मिन् पुत्रके चूतवृक्षे । भवनपरिखापद्मिन्यां सख्यां न्यस्तरोलम्बवर्णा-, वलिकिसलयव्याजादेतेनानिन्यिरेऽनङ्गलेखाः ॥ ३१२.१ ॥ विबुधप्रियेत्यन्ये । ॥ ३१२.१ ॥ सौ जौ भ्रावुज्ज्वलं जैः॥ ३१३ ॥ . रसजजभराः । जैरित्यष्टभिर्यतिः । यथा "पाणिपादविलोचनाननपद्मकाननशालिनी, निम्ननाभिमहाहदा त्रिवलीतरंगविभूषिता। . ___1) नष्टमित्यत्र त्यक्तं मिथो यत्र क्रियाविशेषणम् । विस्मृतशृङ्गभारं यथा स्यादेवं विधुरैः पीडितैः गण्डकजीवैः । क्रोडैर्वराहैः । ललितं सविलासं यथा भवति तथा। 2) अस्याः वक्त्रेन्दावित्यत्र हे प्रालेयांशो चन्द्र । रे पृष्ट त्वं अस्या वदनेन्दौ सर्वोत्कृष्टे सति कलङ्कहीने सति आकाशेऽचेतनः सन्नित्यं स्फुरसि अतो हेतोः त्वत्तः इह लोके सा कुरङ्गिकाप्युचितचतुरा या अस्याः साभिप्रायालोकनाद्भुतनयनकेल्या निर्जिते विलोचने यस्याः सा एवंविधा सती अरण्ये तिष्ठति स्म । मृगी सा पशुरपि धन्या या अरण्ये लजिवा.सती वसति । त्वं तु पशोरपि पशः यत् निर्जितोऽपि गगने भ्रमसीति भावः। 3) प्रियसखि मधुमित्यत्र हे इष्टसखि मधु वसन्तं मावगणय किं तु एनं मानय । अनेन हि बकुलसहकारपद्मिनीषु किसलयब्याजात् अनङ्गलेखाः आनिन्यिरे आनीताः। को भावः। दम्पत्योर्यत्परस्परं प्रेम्णा लेखप्रेषणं सोऽनङ्गालेखः । यथाहमिह स्थितवत्यपि तावकी त्वं अपि तत्र वसन्नपि मामकः । लिखितपत्रमनगरसाकुला विरहिणी प्रहिणोति पतिं प्रति । एवं पतिरपि तां दयितां प्रति प्रेषयति । 4) पाणिपादेत्यत्र त्रिवली उदरस्था वलित्रयी। चक्रवाकेति-पक्षिविशेषः। १ प्रतिक्षण 0. २ जातं B. ३ ध्वनिति N. ४ कांचाटु० N; ५ लोकाद्वत० . ६ this is found under s. 313 after the word ofa: in BCDFNP; but this is never the place where H. indicates alternative names. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy