SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः। म्भौ न्यौ रौ केसरम् ॥ ३०६॥.. मभनयरराः। घछैरिति वर्तते । यथा "सारंगाणां न कुलमिह न वा यूथं "महादंष्ट्रिणां, कर्णातिथ्यं न च भजति कटुर्गन्धद्विपानां ध्वनिः । तत्किं दिक्षु क्षिपसि रभसया नेत्रे त्वमुद्यत्करो, यद्वा ज्ञातं विधुवति पवनस्त्वत्केसरं केसरिन् ॥ ३०६.१ ॥ नौ मौ यो चन्द्रमाला छघैः ॥ ३०७॥ ननममययाः छषैरिति सप्तभिश्चतुर्भिश्च यतिः । यथा "सरसि' सरसिजं तद्वाकाशे पार्वणं चन्द्रबिम्ब, कुवलयनयने तावत्साम्यं नाभजत्त्वन्मुखस्य । "जनयतु कनकाम्भोजश्रेणीर्लक्षशः स्वर्गसिन्धुर्-, घटयतु यदि वा सोऽपि स्रष्टा कोटिशश्चन्द्रमालाः ॥ ३०७.१ ॥ नौ म्तौ भ्रौ ललितम् ॥ ३०८॥ ननमतभराः । छथैरिति वर्तते । यथा "परममुपशमं वर्मीकृत्य स्थितेऽत्र महामुनौ, प्रहरणमपरं दध्याः किंचिन्निशातमतीव यत् । पशुपतिविजयं स्मारं स्मोरं पराक्रमगर्वितः, कलयसि ललितं पौष्पं शस्त्रं मनोभव किं मुधा । ३०८.१ ॥ भ्रनिसा भ्रमरपदं झैः ॥ ३०९॥ भरौ नगणत्रयं सश्च । झैरिति नवभियेतिः। यथा वारिदमुक्तवारिभरपरिशमितघनरजा, ....... उद्गतरोहिणीशकरधवलितसकलककुप् । कस्य धृतिं ददाति न हि शरहतुरजनिरियं, चुम्बनलालसभ्रमरपदविदलितकुमुदा ॥ ३०९.१ ॥ म्सौ सौ सौ शार्दूलललितं हैः॥ ३१॥ मसजसतसा: । हैरिति द्वादशभिर्यतिः । यथा 1) सारंगाणामित्यत्र हरिणानां वृन्दम् । 2) महेति-वराहादीनाम् । 8) त्वत्स्कन्धकेशम् । 4) सरसि सरेस्थित्र] पर्वणि भवं पार्वणं राकाजातम् । 5) आदौ जनयत्विति - तदेत्यध्याहारो विधेयः । स्वर्गेति - गङ्गा । खटेति- ब्रह्मा । 6) परममुपेत्यत्र संनाहीकृत्य । निशातं तीक्ष्णम् । ईश्वरविजयं स्मृत्वा स्मृत्वा । . १ सरसि dropped in A. २ तीक्ष्णं .. ३ गर्वित N. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy