SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ६८ छन्दोऽनुशासनम् । "देव तवारिनरेशपुरन्ध्रीवक्त्राम्बुजशशिनः, प्रोल्लसिताधिकविस्मयमुर्वी" संवीक्ष्य भुजगताम् " । प्राभृतसारकृते निरवद्यामद्याप्यनवरतं, मूर्धनि धारयते मणिमालां पातालपरिवृढः " ।। ३०१.१ ॥ मत्ना यिः कुसुमितलतावेल्लिता ङन्चैः ॥ ३०२ ॥ मतना यगणत्रयं च । ङचैरिति पञ्चभिः षभिश्च यतिः । यथा - कङ्केल्लिस्कन्धे कुसुमितलतावेल्लिता मन्दमन्दं, क्रीडादोलेयं स्मरविरचिता दाक्षिणात्यानलेन । अस्यां खेलन्ती रतिरतितरां हन्तै गीतिं तनोति, व्याकूजन्मत्तभ्रमररमणीहुंकृतीनां छलेन । ३०२.१ ॥ घछैश्चित्रलेखा ॥ ३०३ ॥ चतुर्भिः सप्तभिश्च यतिश्चेत् सैव चित्रलेखा । यथा - पश्योष्णांशोरभ्युदयमधुना सूचयन्ती पुरस्तात्, सन्ध्या सेयं चित्रयति गगनाभोगवेश्मान्तराले । शङ्खच्छेदस्वच्छ रुचिरुचिरानभ्रभित्तिप्रभागान्, वर्णैः पीताताम्र शितिकपिशैस्तन्वती चित्रलेखाः ॥ ३०३.१ ॥ मना विश्चन्द्रलेखा ॥ ३०४ ॥ मना यगणत्रयं च । घछैरिति वर्तते । यथा "ज्वालं ज्वालं सुभग तव महान् विप्रयोगानलस्तां, दाहं दाहं किमिव विरचयेदन्यदस्मात्परेण । लावं लावं विकचकमलिनीचूर्णयत्यंह्रिघातैर, "लेखं लेखं शकलयति तथा सा नखैश्चन्द्रलेखाम् ॥ ३०४.१ ॥ म्भन्जभ्राश्चलम् ॥ ३०५ ॥ मभनजभराः । घछैरिति वर्तते । यथा शास्त्राभ्यासे व्यसनमनुपमं परोपकृतौ रतिः, "सत्पात्रेषु प्रणयपरतया प्रदानमनारतम्" । प्रीतिः पादाम्बुरुहि जिनपतेर्भवेदमलात्मनां ", विद्युल्लेखाजलधरपटलीचलात्मनि जीविते । ३०५.१ ॥ 1) देव तवारीत्यत्र रिपुनृपस्त्रीमुखाम्भोजसंकोचचन्द्रसमानस्य । 2 ) उर्वी पृथ्वीम् । पक्षे गुर्वीम् । 3 ) हस्तगतां पक्षे सर्पताम् । 4 ) पातालस्वामी शेषः । 5 ) ज्वालंज्वालमित्यत्र वियोगाग्भिः । 6 ) लेख लेख मालेख्यालेख्य । 7 ) सत्पात्रेष्विति - आदरतत्परतया । 8 ) अनेति - निरन्तरम् । 9 ) अमलेति - विशुद्धात्मनाम् । Jain Education International १ देवतावारिनशपु. 4. २ परिदृढः 4. ३ दन्तगीतिं A. ४ रुचि dropped in B. ५ चूर्णयन्त्यहि N. ६ सकलयति A For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy