SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः। न्जजजा ल्गाववितथम् ॥ २९७ ॥ नजभजजेभ्यः परौ ल्गौ । यथा "शृणु परमोपदेशमिह मुग्धमते सततं, ... भवजलधेः परेण यदि यातुमनास्त्वमसि । विसृज परिग्रहं भज कृपां त्यज कामकथाम् , अवितथवाग्भवापहर मा परकीयधनम् ॥ २९७.१ ॥ . नर्कुटकमिति जयदेवः ॥ २९७.१॥ तत् कोकिलकं छचैः॥ २९८ ॥ तदवितथं छचैः सप्तभिः षड्भिश्च यतिश्चेत् कोकिलंकसंज्ञम् । यथा कलयति कोकिले मधुरपञ्चमगीतिमिमां, मलयसमीरणो भवति पश्यत नाट्यगुरुः । इह हि यदाज्ञया नवनवाद्भुतभङ्गिजुषः, किसलयहस्तकान् वितनुते "सहकारलता ॥ २९८.१ ॥ इह केचिदष्टभिः पञ्चभिश्च यतिमिच्छन्ति ॥ २९८.१ ॥ गौ चेद्वाणिनी ॥ २९९ ॥ नजभजजेभ्यः परौ गौ चेद्वाणिनीसंज्ञम् । यथा "परभृतकूजितानि जरठेक्षुरसो नवेन्दुर, मलयसमीरणो मलयजं मधुसंगमश्च ।। अपि न तथा हरन्ति मिलितानि मनो यथेदं, मदभरलल्लभाषितमहो खलु वाणिनीनाम् ॥ २९९.१.१७।१४ ॥ धृत्यां म्रभ्या रौ काञ्ची टैः ॥ ३००॥ मरमयरराः । टैरिति एकादशभिर्यतिः । यथा "संप्राप्तेऽस्मिन् जगच्चक्षुषि रवौ प्रत्यग्गिरेर्गह्वरं, प्रेयःसंकेतवेश्माभिसरणे धत्से पिधानांशुकम् । मुग्धे ध्वान्तानुरूपं किमु मुधैवौत्सुक्ययोगात् कणत्-, काञ्चीमञ्जीरकोलाहलमिमं शक्ता निषे«' न चेत् ॥ ३००.१ ॥ वाचालकाञ्चीत्यन्ये ॥ ३००.१॥ भिम्भसा मणिमाला ॥ ३०१॥ : भत्रयं मभसाश्च । टैरिति वर्तते । यथा 1) शृणु परमोपेत्यत्र परेणेति अव्ययं परार्थे । अवीति – सत्यवान् । 2) सहकारलतेति-चूतमारी। 3) परभृतेत्येनं कोकिलजल्पितानि । कठिनेक्षुरसः । मदभरे अव्यक्तजल्पनम् । 4) मत्तच्छेकानां स्त्रीणाम् । 5) संप्राप्तेऽस्मिन्नित्यत्र पश्चिमपर्वतस्य । कणदिति-मेखलानूपुरयोः कलकलः। १ तदवितथं dropped in P. २ कोकिलसंज्ञं CN. ३ निरोर्बु AP. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy