SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ छन्दोऽनुशासनम् । न्सौ नौ स्लौ गो हरिणी चघैः ॥ २९३ ॥ नसमरसलगाः। चधैरिति षड्भिश्चतुर्भिर्यतिः । यथा कथय किमियं लक्ष्मच्छाया शुचेस्तु भवेत् कथं, तव हिमरुचे यद्वोत्सङ्गे कृतः कृपया ध्रुवम् । नभसि रभसाद् बद्घाटोपप्रधावितलुब्धक-, क्षुभितहरिणीगर्भाद् भ्रष्टः कुरंगक एव हि ॥ २९३.१ ॥ वृषभललितमित्येके ॥ २९३.१॥ नः स्मौ तौ गौ पद्मम् ॥ २९४ ॥ नसमततगगाः। चधैरिति वर्तते । यथा त्यजत मनुजा जातेर्गवं किं तैयैवैकया स्यात् , गुणपरिचयो लोकेऽत्यन्तं हन्त दत्ते प्रतिष्ठाम् । अजनि चुलुकाचान्ताम्भोधिः कुम्भजन्माप्यगस्त्यः, "कुलगृहमभूहेव्या लक्ष्म्याः पङ्कजातं च पद्मम् ॥ २९४.१ ॥ नस्मम्यल्गा रोहिणी ॥ २९५ ॥ नसममयलगाः। चधैरिति वर्तते । यथा "कुवलयमुदं व्यातन्वानः पूर्णोल्लसन्मण्डलः, __ शिरसि घटैयन् पादन्यासं निःशेषपृथ्वीभृताम् । , उदयमधुना प्राप्तः श्रीमत्सिद्धेन्द्रसूनो भवान् , इव "कृतबुधानन्दः सोऽयं श्रीरोहिणीवल्लभः ॥ २९५.१ ॥ नुर् गौ वसुधारा डैः ॥ २९६ ॥ नुरिति पर्च नगणाः गुरुद्वयं च । डैरिति पञ्चभिर्यतिः । यथा "प्रणतसुरविसरमणिमुकुटतटकोटि-, परिघुटितचरणनखरुचिनिचयरम्ये । इह भवति भगवति विहरति जिननाथे, प्रतिभवनमभिपतति जगति वसुधारा ॥ २९६.१ ॥ 1) कुलगृहं प्रधानसदनम्। 2) कुवलयमुदमित्यत्र -कैरवं भूवलयं च । मण्डलं बिम्बं देशश्च । कुर्वन् । पादानां चरणानां किरणानां च न्यासम् । समग्राणां राज्ञां पर्वतानां च । 3) कृतबुधेति-पुत्रत्वाद्धानन्दकृत् पक्षे पण्डितानन्दनो दानादिना । चन्द्रः। 4) प्रणतसुरेत्यत्र वसुधारेति-सुवर्णरवादिवृष्टिः। १तया वैकया A. २ मुदां A; मदं P. ३ घटयत् N. ४ नगणपञ्चकं गुरु. A. ...६ पतति dropped in N; जगति in F. ५ परिघट्टित्त N. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy