SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः। सौ ज्भौ जो गावतिशायिनी ॥ २८९॥ ससजभजगगाः । जैरिति वर्तते । यथा माघस्य" इति धौतपुरैन्धिमत्सरान् सरसि मज्जनेन, श्रियमाप्तवतोऽतिशायिनीमपमलाङ्गभासः । अवलोक्य तदेति यादैवानपरवारिराशेः, शिशिरेतररोचिषाप्यपां ततिषु मङ्क्तुमीषे ॥ २८९.१ ॥ यादवीत्यन्ये ॥ २८९.१॥ मो नौ तौ गौ मन्दाक्रान्ता घचैः ॥ २९० ॥ मभनततगगाः । घचैरिति चतुर्भिः षड्भिश्च यतिः । यथा जन्मस्नाने स चरमजिनः स्वर्णकुम्भौघधारा-, ___ सारं सोढा कथमिति पुरा वज्रिणा शङ्कितेन । दृष्टः पश्चाजयति चरणाङ्गुष्ठपर्यन्तलीला-, मन्दाक्रान्तामरगिरिशिरःकम्पतो विस्मितेनें ॥ २९०.१ ॥ _ श्रीधरेति भरतः ॥ २९०.१ ॥ मनरसल्गाः भाराक्रान्ता ॥ २९१ ॥ मभनरसलगाः। घचैरिति वर्तते । यथा "चौलुक्येन्द्र त्वमिह न हि चेदिमां किल धारयः, __ कूर्मक्रोडाधिपफणिपतिद्विपाद्रिषु सत्स्वपि । सर्पन्त्या ते करटिघटया दिशां विजये तदा, भाराकान्ता नृप वसुमती क्षणान्निपतेदधः ।। २९१.१ ॥ मनम्यल्गाः हारिणी ॥ २९२॥ मभनमयलगाः । घचैरिति वर्तते । यथा प्रासादेषु त्वदरिनगरे शून्यत्वमासेदुषि, श्रीचौलुक्य क्षितिपतिशिरश्चूडामणे संप्रति । प्रेखोलन्तो विषधरशतैालम्बिताः कञ्चुका, व्यातन्वन्ति ध्वजपटतुलामुञ्चैर्मनोहारिणीम् ॥ २९२.१ ।। naari 1) मावस्येति - माधकाव्यमिदम् । शिशिरेति - सूर्येण। 2) चौलुक्येत्यत्र कच्छपादिवराहशेषदिरहस्तिपर्वतादिषु। १ औः added in GH. २ पुरन्ध्री N. ३ यदेवीनपर०A. ४यावदवी. B. ५ विष्णुतेन A. ६मनोहारिणी AN. छन्दो० Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy