SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ छन्दोऽनुशासनम्। "मत्तालीनां स्निग्धमधुरोद्गारैर्मुहुर्गीतकैर् , आक्षिप्तोऽस्यारोहणमृगः स्वच्छन्दचारी यतः । मन्दं मन्दं दक्षिणमरुद्वात्येष तेनाधुना, संद्यःपुष्यत्कोमललतालास्यैकशिक्षागुरुः ॥ २८५.१.१६॥२३॥ अत्यष्टौ यम्नस्भल्गाः शिखरिणी चैः।। २८६॥ . यमनसभलगाः। चैरिति षड्भियेतिः। यथा "हरन् सर्वाम्भोजश्रियमविरतं सिन्धुपतिना, कृतार्थस्तन्वानो निशितमसि विद्योतमसमम् । सुधांशुस्तद्वंशे त्वमिव जयसिंह क्षितिपते, कलापूर्णः पश्योदयशिखरिणीहाभ्युदयते ॥ २८६.१ ॥ ज्सजस्यल्गाः पृथ्वी जैः॥ २८७॥ . जसजसयलगाः । जैरित्यष्टभिर्यतिः । यथा "त्वदीयरिपुभूभुजां पुरि पुरारिवेश्माग्रतो, निरीक्ष्य चमरी वृषं सपदि मन्मथव्याकुला । परिस्पृशति जिह्वया "ककुदकेन कण्डूयते, निमीलितविलोचना किल चुलुक्यपृथ्वीपते ॥ २८७.१ ॥ विलम्बितगतिरिति भरतः ॥ २८७.१॥ भ्रौ न्भौ लौ गो वंशपत्रपतितं औः॥ २८८॥ भरनभनलगाः । जैरिति दशभिर्यतिः । यथा "जर्जरसारिमध्यलुठिताः क्वचिदपि गर्जिनो, __ भङ्गुरवंशपत्रपतिताः कचिदपि रथिनः । कापि च सादिनो हततुरंगमबलपिहिताः, शत्रुबलेऽभवंस्त्वयि रणाङ्गणमवतरति ॥ २८८.१ ॥ वंशदलमित्यन्ये ॥ २८८.१ ॥ 1) मत्तालीनामित्यत्र आरोहणमृग इति - वातो हरिणवाहनः स च गीतिरतिः । मृगं विना वातोऽपि चलितुं न शक्नोति । लास्य नाट्यम् । 2) हरन् सर्वामित्यत्र यद्यपि जयसिंहदेववारके धारायां नहि(२)वर्मराजोऽभूत् तथापि तस्य या राष्ट्रकोशादिसप्ताङ्गलक्ष्मीः सा सर्वापि भोजोपार्जितासीत् । उत्कटत्वाम विरोधः। सिन्धुदेशराजःसमुद्रश्च । तेन विहितपूजः । निशि रजन्यां अन्धकारे विशिष्टोयोतं निरुपमं प्रकाशम् । पक्षे निशितं तीक्ष्णं । खडकान्ति कुर्वन् । तस्य चन्द्रस्य वंशे यथा त्वं तथा उदयगिरौ सुधांशुः । कलाषोडशः पक्षे विज्ञानम् । 3) त्वदीयरिपुभूभुजामित्यत्र ईश्वरायतने चमरी वनगौः कामान्धा पाषाणमयं वृषं अजानती जिह्वास्पर्शनाद्यनङ्गचेष्टाः करोति। 4) ककुदकेनेति-अकारान्तोऽप्यस्ति । 5) जर्जरसारीत्यत्र सारिः अंबाडीति प्रतीता। गजिनो गजारूढाः । वंशाः वाहनानि तेभ्यः । रथिनः इति रथवन्तः । सादिनोऽश्ववाराः॥ 6) हततुरंगेतिउपरि तुरंगा अधस्तादश्वसमूहा [सादिनो? ] जाता इति भावः । १ स यः N. २ कृतार्घः P. ३ शारि B. ४ गतिनो N. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy