SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ cs द्वितीयोऽध्यायः। मानित्वं त्यजत सुभगंमन्यत्वमस्तु दूरे, कन्दर्पः सुरतललितौपाध्यायकं प्रपेदे ॥ २८०.१ ॥ भ्रौ न्भौ भगौ शैलशिखा ।। २८१॥ भरनमभगाः । यथा "शीतरुजा विधुतचिबुकैः कृतदन्तरवो, गाढतरप्रयुक्तगजदन्तकराभिनयः । शैलशिखाप्रदेशमधिरुह्य तुषारऋतौ, पश्यति भास्करोदयपथं तव वैरिजनः ॥ २८१.१ ।। भ्रौ रनौ न्गौ वरयुवतिः॥ २८२॥ भरयननगाः। यथा "स्फूर्जति संगरप्रदोषे तुरगखरखुर-, क्षुण्णरजोन्धकारपोरे विलसति नृपते । वैरिमहीभुजां समन्तात्सुरवरयुवती-, . संगमहेतुरेकदूती भवदसिलतिका ॥ २८२.१ ॥ ीगा ललना ॥ २८३ ॥ रगणो नगणचतुष्टयं गुरुश्च । यथा दिक्षु चक्षुरनिलहतकुवलयतरलं, __ प्रक्षिपत्यतनुमृगपतिनिनदचकिता। सिद्धराजसुत भजति मृगयुवतितुला, सांप्रतं वनभुवि तव रिपुनृपललना ॥ २८३.१ ।। सौ नौ मो गो वेल्लिता ॥ २८४ ॥ यथा"सरितां कमितुः स्तबंकितघनफेनव्याजाद्-, विततेषु तटेषु बहललवलीच्छायेषु । श्रममाप्तवती त्रिजगति संचारैर, नियतं नृप "वेल्लितसुखमभजत् त्वत्कीर्तिः ॥ २८४.१ ।। म्तौ स्तौ त्गौ कोमललता घडैः ॥ २८५ ॥ मतसततगाः । घडैरिति चतुर्भिः पञ्चभिर्यतिः । यथा 1) शीतरूजेत्यत्र गाढतरं प्रयुक्तो गजदन्तानां कराभ्यां कृत्वाभिनयोऽनुकरणं येन स तथा। कोऽर्थः। बाकरीबन्धः। 2) स्फूर्जतीत्यत्र संग्रामरूपरात्रिमुखे। 3) सरितां कमितुरित्यत्र समुद्रस्य । स्तबकितेतिफेनस्तबका हि कल्लोलैरितस्ततः प्रेखोल्यन्ते । लवलीलताभिः । 4) वेल्लितेति-आन्दोलनसुखम् । १ सुभगंमान्यत्वं N. २ स्तवकित• N. . . ........ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy