________________
छन्दोऽनुशासनम् । "अविरलपुष्पबाणललितानि दर्शयन्ती,
परिमलहारितामरसवक्त्रमुद्वहन्ती । मदकलराजहंसगमनानि भावयन्ती,
शरदिह मानसं हरति हन्त वाणिनीव ॥ २७६.१ ॥
नजिर्गा वा ॥ २७७॥ नगणो जत्रयं रगणो गुरुश्च यदा तदापि वाणिनी । यथा
"कुरु करुणां वितर प्रतिवाचमत्र कां वा,
हृदि दयितां निदधासि निमीलिताक्षियुग्मम् । अयमपि ते ननु दासजनोऽनुकम्प्य एव, जयति सै वीरजिनो गदितो धुवाणिनीभिः ॥ २७७.१ ॥
ज्रज्रज्गाः पञ्चचामरम् ॥ २७८॥ जरजरजगाः। यथा
"त्वदीयपादपङ्कजे निधाय भक्तिमुज्वलां, ___ मनुष्यकीटका वयं विदध्महे किमद्भुतम् । यदीयजन्मनो महोत्सवं तथा प्रचक्रिरे, जिनेन्द्र सप्तविंशतिश्च पञ्च चामराधिपाः ॥ २७८.१ ॥
जर्जर्गाश्चित्रम् ॥ २७९ ॥ रजरजरगाः । यथा
"कान्तिरिन्दुकौमुदीसहोदरा वचोविलासः, ___ सर्वदा सुधोज्वलो यशश्च दुग्धसिन्धुबन्धुः । क्षुण्णशङ्खसोदरा गुणास्तवामलं चरित्रं, चित्रमेतदेभिरीश मे मनस्तथापि रक्तम् ॥ २७९.१ ॥
म्नस्तर्गाः सुरतललिता ॥ २८०॥ मनेसतरगाः । यथा
"संप्राप्ते मधुसमयसाम्राज्ये पिकीसमूहाः,
शंसन्ति प्रतिदिशमिदं मन्ये नितम्बिनीनाम् । 1) अविरलपुष्पेत्यत्र अन्यत्र बाणो वृक्षभेदः । छेका मत्ता च वाणिनी। 2) कुरु करुणामित्यत्र संगमदेवेन मायया कामिनीरूपाणि यानि निष्पादितानि ताभिरुक्तम् । निमीलितेति क्रियाविशेषणम् । गदित इति-प्रोक्तः । स्वर्गमत्तच्छेकरामाभिः। 3) त्वदीयपादेत्यत्र द्वात्रिंशत् देवेन्द्राः । व्यन्तरेन्द्रा न गण्यन्ते अल्पर्द्धित्वात् । 4) कान्तिरिन्दुरित्यत्र पयःपयोधिसोदरः । रक्तमिति - रागभाग्। 5) संप्राप्त इत्यत्र शंसन्ति कथयन्ति।
१ युग्मः BEP. २ नु कथं एवं N; नुकम्प्य एवं F. ३ स dropped in N. ४ जन्मतो N. ५dropped in N.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org