SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ छन्दोऽनुशासनम्। नुगौ चलधृतिः ॥ २६८॥ नुरिति नगणपञ्चकं गुरुश्च । यथा प्रणमदखिलसुरपतिकनकमुकुट-, स्फुटरुचिनिचितनखमणिकिरणचये । कुरु जिनचरणजलरुहि नमनरुचिं, "चलधृतिमपजहि च विषयसुखधियम् ॥ २६८.१ ॥ नुलावचलधृतिः ॥ २६९॥ नुरिति नगणपञ्चकं लघुश्च । यथा विलुलितचिकुरमधरनिहितदशनम् , ___ अविरलपुलकनिचितकुचयुगमयि" । रतिरसरभसमणितमुखरितमिह, विलसति तव सखि सुरतमचलधृतिः ॥ २६९.१ ॥ न्भौ जिगौ मङ्गलमङ्गना धैः॥ २७० ॥ नभौ जिरिति जगणत्रयं गुरुश्च । धैरिति चतुर्भिर्यतिः॥ यथा "कुटिलतां धृतवती गुरुभोगमदोद्धता, विद्धती प्रलयवेपथुसादपरंपराम् । विषधरीव पुरतः स्फुरिता यतिनामहो, विचरतां सुगतिमार्गममङ्गलमङ्गना ॥ २७०.१ ॥ भ्रनिगा ऋषभगजविलसितं छैः ॥ २७१ ॥ भरौ नगणत्रयं गुरुश्च । छैरिति सप्तभिर्यतिः । यथा "अद्भुततुङ्गमूर्तिरतिशयललितगतिर, ___ देव समग्रकर्मवनविदलनरसिकः । निर्भरमन्तरङ्गरिपुबलविजयपटुर, नाथ दधासि तत् त्वमृषभगजविलसितम् ॥ २७१.१ ॥ मत्तगजविलसितमिति भरतः ॥ २७१.१ ॥ ... . . 1) चलधृतिमिति-अस्थिरस्वास्थ्यं अपजहि त्यज । 2) अयीति-कोमलामन्त्रणे। 3) अचलएतीति-अचला स्थिरा धृतिः समाधिर्यत्र । 4) कुटिलतामित्यत्र वक्रत्वं उभयत्र । गुरुवासौ भोगश्च तेन उद्धता दर्पभाग । पक्षेऽहिकायः । मूर्छाकम्पस्वेदश्रेणिः । भुजगीव अग्रतः । स्फुरिता जाता । यतिनां वतिनाम् । [अहो आश्चर्यम् । 5) अद्भुततुङ्गेत्यत्र अन्तरंगेति-गजपक्षे अन्तर्मध्ये अङ्गति गच्छति यद्रिपुबलम् । . .....१ स्फुरता N,. २ रसिक N. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy