SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १० द्वितीयोऽध्यायः। "ऐक्षवकार्मुक कौसुमसायक भटमानिन् , मुश्च चतुर्मुखशंभुचतुर्भुजजयगर्वम् । उत्तमसंयमवर्मवृतात्मनि जिननाथे, संप्रति शम्बरसूदन संहर शरमालाम् ॥ २६४.१ ॥ भुगौ संगतम् ॥ २६५॥ भुरिति पञ्चभगणा गुरुश्च । यथा "वीर तवासिपथेन गतैररिभित्रिदिवं, तत्र दिवस्पतिमानिभिराकुलितः प्रबलैः । अद्य हरिर्विमृशन् सचिवैः सह तद्विजये, त्वन्नवसंगतकल्पनमौपयिकं मनुते ॥ २६५.१ ॥ पद्ममुखी, सुरतावसैथं, उद्धरणं, सोपानकं चान्येषाम् ॥ २६५.१ ॥ मुगौ कामुकी ॥ २६६॥ मुरिति मगणपञ्चकं गुरुश्च । यथा संवृत्तोऽयं सन्ध्याकालः प्राप्तोऽस्ताद्रेः शृङ्ग भानुर , विस्फूर्जद्भिर्ध्वान्तस्तोमैरेकीभूतं "काष्ठाचक्रम् । चापाकृष्टिं व्यातन्वानः कन्दर्पोऽपि क्रीडत्युच्चैर् , गच्छन्त्यतास्त्यक्ताशकं क्रीडास्थानं कामुक्योऽपि ॥ २६६.१ ।। सुगौ वा ॥ २६७॥ सुरिति सगणपञ्चकं गुरुश्चेदियमपि कामुकी । यथा "अपयाहि पितामहचित्तविलोभिनि धिक् त्वाम् , अँपि कौशिककामुकि न त्वमपि त्रपसे किम् । असि हास्यपदं नलकूबरकामिनि यद्वः, .. कुलिशातिहढेऽत्र जिनेन्द्रहृदि प्रविविक्षा ॥ २६७.१ ।। सोमडकमित्यन्ये ॥ २६५.१॥ M 1) ऐक्षवकार्मुकेत्यत्र- इक्षोरिद ऐक्षवम् । कुसुमसंबन्धिनो बाणा यस्य कौसुमसायकस्तत्संबोधनम् । ब्रह्मेश्वरकृष्णजयमानम् । वर्मेति-सन्नाहः । जिनपतौ । शम्बरसूदनेति - हे काम । 2) वीर तवेत्यत्र दिवस्पतिमानिमिः पूज्यैः । नवसंगतेति-नवं संगतं मैन्यं तस्य यत्कल्पनं निष्पादन एवंविधं उपायम्। 3)काष्ठाचक्रमिति-दिक्चक्रम् । कामुक्यः कुलटाः। 4) अपयाहीति-पितामहो ब्रह्मा तस्य ध्यानारूढस्य चित्तप्रलोभिनी] इयं तिलोत्तमा । इन्द्रस्य विश्वामित्रस्य वा कामुकी उर्वशी तस्य संबोधनम् । अत्र कौशिकशब्दस्योभयार्थत्वम् । अपसे लज्जा न करोषि । नलकूबरेति-धनदपुत्रकामिनि हे रम्भे । कुलिशेति - वज्रादप्यतिदृढे।.... १ चतुर्भुज शंभुचतुर्भुज A. २ आतुलितः N. ३ सुरता च सद्यमुद्धरणसो० N. ४ अयि- PN. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy