SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ छन्दोऽनुशासनम् । त्रस्यन्ति हि शैलशिखरान्तरितस्य दूराल्, लीलाध्वनितेन मृगराजशिशोर्गजेन्द्राः ॥ २५९.१ ॥ भ्यसस्याः केतनम् ॥ २६०॥ भयससयाः। यथा "कोकिलवधूनां कलपञ्चमरागगीतिश् , चूतविटपानां नवपल्लवसंपदश्च । दक्षिणसमीरो मृगशावदृशां कटाक्षाः, विभ्रति हि जैत्रायुधतां झषकेतनस्य ॥ २६०.१ ॥ त्भी जो रो मृदङ्गः ॥२६१॥ तभजजराः। यथा कृत्वा जगत्रयजयं मकरध्वजप्रभुः, संगीतकं सपदि कारयते रतेः पुरः। आकाशरङ्गभवने नरिनर्ति नर्तकी, विद्युद् , घनर्तुरपि "मेघमृदङ्गवादकः ॥ २६१.१ ॥ मुः कामक्रीडा ॥ २६२॥ मुरिति पञ्च मगणाः । यथा उक्ता वाचं नो दत्त तल्पे शेते व्यावृत्ताङ्गी, "पर्याक्षिप्तक्षौमप्रान्ता प्रस्थातुं काङ्क्षत्याशु । कामक्रीडावार्तागोष्ठीप्रारम्भेऽप्युच्चै/डां, धत्ते पत्युः प्रीत्यै वामारम्भाप्येवं सा बाला ॥२६२.१॥ १५॥२१॥ अष्टौ नज्रा भौ गो मणिकल्पलता ॥ २६३ ॥ नजरभभगाः। यथा उपलतृणस्वरूपचिन्तामणिकल्पलता-, __"व्यतिकरतो मुधैव मेरुर्मदमुद्वहति । जयति यदुजयन्त एकोऽयमचिन्त्यफलं, प्रदद्लंकरोति नेमिः स्वयमेष जिनः ॥ २६३.१ ॥ भीः स्गो शरमाला ॥ २६४ ॥ भीरिति भचतुष्टयं सगौ च । यथा 1) कोकिलवधूनामित्यत्र चूतविटपानां सहकारशाखानाम् । झषकेतनस्येति - कन्दर्पस्य। 2 ) मेघमृदङ्गवादक इति-मेघा एव मृदङ्गाः तान् वादयतीति वर्षाकालः। 3) पर्याक्षिप्तेत्यत्र पराङ्मुखी पर्याक्षिप्तः आकर्षितोवस्त्रस्य प्रान्तो यया सा।वामारम्भेति -विपरीतारम्भापिकामोदयात् प्रीत्यै भवति । 4)व्यतिकर संबन्धादेव मेरुर्द बिभर्ति । १ केतन F. . Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy