SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः। पिकयुवतेः प्रसृताश्च पञ्चमगीतयस्, तदपि सखे मयि न प्रिया कलभाषिणी ॥ २५५.१ ॥ अरविन्दमित्येके ॥ २५५.१॥ रान्नभभ्राः सुन्दरम् ॥ २५६ ॥ रगणात्परे नभभराः । यथा "निर्ममे सपदि पत्रलता न कपोलयोर् , नापि यावकरसो निहितोऽधरपल्लवे । वल्लभाभिसरणोत्सुकया सुदृशानया, सुन्दरत्वमधिकं तदपि प्रतिपद्यते ॥ २५६.१ ॥ ___ मणिभूषणं, रमणीयं चेत्येके ॥ २५६.१ ॥ नागौः ॥ २५७॥ नगणात्परे नभभ्राश्वेत्तदा गौनाम । ननभभराः । यथा अनुदिनमपि हन्त दुहन्ति कवीश्वरास् , त्रुटति न च यदीयसदुक्तिपयः शुचि । हृदयमुकुरमध्येमधिश्रयतां सदा, निरुपमचरितप्रथिता मम सैव गौः ॥ २५७.१ ॥ नौ रो यौ भोगिनी ॥ २५८॥ यथा"दधति तव चुलुक्यचन्द्र धात्री भुजेऽस्मिन् , भजतु जलनिधौ चिराय निद्रामुपेन्द्रः। विधतु दिगिभाः करेणुकाभिर्विलासं, सममभिरमतां च वासुकि गिनीभिः ॥ २५८.१ ॥ त्जसस्याः शिशुः॥ २५९॥ तजससयाः। यथा "त्वं नासि दृशोः पथि विमुक्त तथापि नाथ, पापं भुवने तव गिरो जिन नाशयन्ति । 1) निर्ममे सपदीत्यत्र यावकेति- अलक्तकरसः । अधरपल्लवे-स्त्रियः अधरं शोभार्थ अलक्तकरसेन सिञ्चन्ति। भत्रभिगमनव्याकुलतया अङ्गीक्रियते। 2)अनुदिनमपीति [अत्र हन्तेति-कोमलामन्त्रणे। दुहन्ति दोहनं कुर्वन्ति । मुकुरेति-आदर्शमध्यम् । गौरिति-धेनुर्वाक् च। 3) दधति तव चुलुक्येत्यत्र उपेन्द्रः कृष्णः। दिगिभाः दिग्हस्तिनः । वासुकिः शेषनागः। 4) त्वं नासि दृशोरित्यत्र विमुक्तेति -वि विशेषेण कर्मणो मुक्कों विमुक्तस्तत्संबोधनम् । ध्वनितेनेति-शब्देन । P. १ सुन्दरीत्वं N. ४तुटति N. २ मध्यामधिo N. ३ तजसस्याः ८ छन्दो० Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy