________________
छन्दोऽनुशासनम् । रगणात्परे यदि रम्ययास्तदा वा चन्द्रलेखा । ररमयया। छैरिति वर्तते । यथा -
"एक एव क्षणोऽसावानन्दनिष्यन्दहेतुः, - सत्कृतैः प्राक्तनैर्मे कैश्चित् सखेऽद्य प्रबुद्धम् । नेत्रनीलोत्पलानां पीयूषवृष्टिं किरन्ती,
यत्पुरः कम्बुकण्ठी सा चन्द्रलेखेव दृष्टा ॥ २५१.१ ॥
स्जनन्या एला डैः॥ २५२॥ सजननयाः । डैरिति पञ्चभिर्यतिः । यथा
"चलितैर्घटोद्भवमुनिदिशमभि यस्य,
प्रबलैर्बलैर्बलमथनसदृशमूर्तेः”। "निषिषेविरे चिरमुदधितटवनान्ताः, परितो लसद्बहललवलिबकुलैलाः ॥ २५२.१ ॥
जभज्राः प्रभद्रकम् ॥ २५३ ॥ नजभजराः । यथा
"जयति जगत्रयोपकृतिकारणोदयो,
जिनपतिभानुमान् परमधाम तेजसाम् । भविकसरोरुहां गलितमोहनिद्रकं, भवति यदीयपादलुठनात् प्रभद्रकम् ।। २५३.१ ॥
र्जरास्तूणकम् ॥ २५४॥ रजरजराः। यथा
स्फीतनव्यगन्धलुब्धषट्पदौघसेविताश-,
चैत्रमासि पश्य भान्ति चूतमञ्जरीशिखाः । ऊर्ध्वदृश्यमानकङ्कपत्रकृष्णर्पक्षकास्, तूणका इवेह वीरमन्मथेन लम्बिताः ॥ २५४.१ ।।
नो जौ भ्रौ कलभाषिणी ॥ २५५॥ नजजभराः। यथा
"स्फुरति च दक्षिणमारुतो मृदुशीतलः,
प्रतिदिशमुल्लसितं च केसररेणुभिः । 1) एक एव क्षण इत्यत्र यत् यस्मात् कारणात् । पुरोऽग्रे। 2) चलितैर्घटोद्भवेति-अगस्त्यदिशं दक्षिणामभि अभिलक्ष्यी कृत्येति भावः। 3) इन्द्रतुल्यमूर्तः। 4) सेविता इति । 5) जयति जगत्रयेत्यत्र प्रकृष्ट भद्रं प्रभद्रं तदेव स्वार्थे के प्रभद्रकम्। 6) स्फीतनव्येत्यत्र ऊर्ध्व दृश्यमानाः कङ्कपत्राणां बाणानां कृष्णाः पुङ्खका येषु ते। 7) स्फुरतीत्यत्र मित्रं प्रति मित्रं प्राह । उल्लसितं प्रसृतम् । पिकायुवतेः] कोकिलस्त्रियाः। प्रसृता व्याप्ताः। प्रियेति-वल्लभा। ..
- १ निस्पन्द० N. २ वलितैः N. ३ उदतट N. ४ नजभज्राः GHP. ५भव्य.A.६ कृष्णपुखका. ABIP. .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org