SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः। विमललवणिमाम्भश्चन्द्रिका द्राक्' किरद्भिर, नवशशधरमालामालिनीवाभवद् द्यौः ॥ २४६.१ ॥ नान्दीमुखीति भरतः ॥ २४६.१॥ नौ मो रौ चन्द्रोद्दयोतः ॥ २४७॥ ननमरराः । जैरिति वर्तते । यथा "ज्वलति सुभग तस्यास्त्वद्विप्रयोगानले, __भवति न खलु किंचित् प्रीत्यै कुरङ्गीदृशः। सपदि दहति देहं यच्चान्दनोऽपि द्रवः, प्रथयति नवचन्द्रोद्दयोतोऽपि नेत्रव्यथाः ॥ २४७.१ ।। नौ तभ्रा उपमालिनी ॥ २४८॥ ननतभराः । जैरिति वर्तते । यथा "नृपवर रिपवस्ते विहाय पुरस्थिति, नवनवमुनिमुद्राजुषः खलु संप्रति । विदधति तृणपोटजान्यभिजाह्नवी-, यमुनमनु च चर्मण्वतीमुपमालिनि ॥ २४८.१ ॥ मिर यो चित्रा ॥ २४९॥ मिरिति मगणत्रयं यगणद्वयं च । जैरिति वर्तते । यथा "शत्रौ मित्रे हयेऽरण्ये संमदे वा गदे वा. राज्ये भैक्षे रत्ने लोष्ठे काश्चने वा तृणे वा। .. स्रोतस्विन्यां कामिन्यां वा निन्दने वा स्तुतौ वा, .. .. चित्रां चित्तावस्थां हित्वा संश्रयेथाः समाधिम् ॥ २४९.१ ॥ __ मण्डूकी, चञ्चला वेत्यैन्ये ॥ २४९.१ ॥ माद्रम्ययाश्चन्द्रलेखा छैः ॥ २५०॥ . मगणात्परे रमययाः। छैरिति सप्तभिर्यतिः । यथा "राजन् सत्यं तदेतद् बमोऽद्भुतं वर्णनं ते, ___ दोर्दण्डस्थामभिः स स्पर्धा करोतु त्वदीयाम् । आच्छिन्द्याद्यो मुरारेर्वक्षःस्थलात् कौस्तुभं वा, यः कर्षेचन्द्रलेखां शंभोर्जटामण्डलाद्वा ॥ २५०.१ ॥ राद्वा ॥ २५१॥ 1)ज्वलति सुभगेत्यत्र भवद्वियोगानौ । प्रीत्यै संतोषायेति । नवचन्द्रोड्योत-इति ज्योत्स्ना। 2) नृपवरेत्यत्र मालिनी नदीविशेषस्तस्याः समीपम् । 3) शत्रौ मित्रे इति-संमदे हर्षे । गदेरोगे। 4) राजन् सत्यमित्यन्न भाच्छिन्द्यादिति-हठेन गृह्णाति । मुरारेविष्णोः । -- १द्रात् N.२ नान्दीमुषीति . ३ कुरदृशः A. ४ नेत्रव्यथात् A; नेत्रव्यथाम् P. ५ मृप पर्णोट. N. ६ भैक्ष्ये OP. ७ श्रोत. AB. ८चेत्यन्ये FP. ९ आच्छिद्याद्यो N. . - - ........... Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy