SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ y छन्दोऽनुशासनम् । "जगतां विभुः पृथुजटापिहितांसदेशः, सततं महर्षिगणसेवितपादपद्मः । Jain Education International मकरध्वजप्रमथनप्रथितप्रभावः, ऋषभध्वजः स भगवान् भवतोऽस्तु भूत्यै ॥ २४२.१ ॥ नीसौ शशिकला ॥ २४३ ॥ नीरिति नगणाश्चत्वारः सश्च । यथा - "अरतिमति हि मम वपुषि विदधतीं, तिरयसि यदि नवजलद शशिकलाम् । स्वयमपि किमिति न कलयसि करुणां यदिह विरचयसि कटु रसितमहो । २४३.१ ॥ अत्र सप्तभिर्यतिरित्येके । चन्द्रावर्तेति पिङ्गलः ।। २४३.१ ॥ सा स्रक् चैः ॥ २४४ ॥ सा शशिकला चैः षड्भिर्यतिश्चेत् स्रकसंज्ञा । यथा - प्रसरति तव सुभग विरहदहने, शृणु यदजनि किमपि कुवलयद्देशः । सरसिजमपि तपति नवविचकिल-, स्रगपि सपदि जनयति भृशमरतिम् ॥ २४४.१ ॥ मालेति पिङ्गलः ।। २४४.१ ॥ मणिगुणनिकरो जैः ॥ २४५ ॥ शशिकलैव जैरष्टभिश्चेद्यतिर्मणिगुणनिकरः । यथा - " नृवर यशसि मतिरविकलकलता, भुजबलमनुपममतिनयपरता । नतिरनुगुरुजनमुचितचतुरता, त्वयि जयति नृपतिमणिगुणनिकरः ।। २४५.१ ।। नौ म्यौ यो मालिनी ॥ २४६ ॥ ननमययाः । जैरिति वर्तते । यथा - प्रतिमुहुरिह" दोलान्दोलनव्यापृतानां, . कुवलयनयनानामाननैरुल्लसद्भिः । 1) जगतामित्यत्र विभुर्व्यापकः स्वामी च । महर्षिगणेति - महर्षयः सप्तर्षयः । गणाः प्रमथादयः । ऋषभध्वज आदिदेव ईश्वरश्च । 2 ) अरतिमित्यत्र अति हि इति - अतिशयेनेत्यर्थेऽखण्डमव्ययम् । कटुरसितमिति - कठिनगर्जारवम् । 3 ) नृवर यशसीत्यत्र नृपमणयः प्रधानराजानः । 4 ) इहेति - वसन्ते । व्यापृतानामिति - व्याक्षिप्तानाम् । द्यौः आकाशः । १ पिहितांशo N. २ शा A. ३ इति पाश्चात्यच्छन्दसोनुवर्तते . For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy