SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ छन्दोऽनुशासनम्। नीर गावुपचित्रम् ॥ २३४ ॥ नीरिति नगणाश्चत्वारो गद्वयं च । यथा "अनुसर हिमकरकिरणसमूह, भज नवकिसलयमृदुशयनीयम् । प्रियसखि ननु शरदियमुपतस्थे, यदभिसरति दिनपतिरुपचित्रम् ॥ २३४.१ ॥ न्जजल्गा धृतिः ॥ २३५ ॥ नजभजलगाः। यथा "विहर नितम्बबिम्बफलके सुदृशां, गतनिधनानि संचिनु धनानि भृशम् । रचय चिरं च सुन्दरनराधिपतां, तदपि न किंचनास्ति तव चेन्न धृतिः ॥ २३५.१ ॥ मणिकटकमित्यन्ये ॥२३५.१॥ भौ रसल्गा दर्दुरकः ॥ २३६ ॥ भभरसलगाः । यथा "मृत्युमुपैति यदा यदा कणशो दल-, त्येष तदापि न हन्त विश्वसनोचितः । कालमवाप्य पुनर्जनश्रवणज्वर, दुर्जनदर्दुरकः करोति कटूक्तिभिः ॥ २३६.१ ॥ भ्जलाद्गौ स्खलितम् ॥ २३७ ॥ भजसनेभ्यः परौ गौ । यथा "पुष्पशररम्यतनुता सलवणत्वं, वाङ्मधुरता चतुरता बहुकलत्वम् । सर्वमपि चास्य सुभगस्य रतये मे, . केवलमिदं व्यथयति स्खलितगोत्रम् ॥ २३७.१ ॥ महिता, कान्ता, वनमयूरश्चेत्यन्ये ॥ २३७.१॥ 1) अनुसरेत्यत्र उपचित्रमिति-चित्रायाः समीपं उपचित्रम् । 2) विरह(हर) नितम्बबिम्बेत्यत्र बिम्बशब्दः शोभाथै ततो नितम्बबिम्बमेव फलकं विपुलत्वात् । 3) मृत्युमुपैतीत्यत्र कणा इति कणेन कणेन इत्यर्थे वीप्सायां शस् । विश्वसनोचितः विश्वासाय नो युक्तः । अवाप्येति-प्राप्य । जनकर्णज्वरं कटु कठिनवाग्भिः। 4) पुष्पशररम्येत्यत्र सखी प्रति सखी प्राह -सर्व एतस्य सुभगस्य रतये प्रीतयेऽखि । केवळ परस्त्रीनामग्रहणं पीडयति नान्यत् । १ after this F reads स्जौ स्यौ ल्गौ भानुपथ्या. २ सल्लवणत्वं N. ३ स्खलितगोत्र: P. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy