SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ११ द्वितीयोऽध्यायः। चुलुक्यनृप कीर्तिं दधत्रिपथगां त्वं, विभासि खलु शैलाधिराजरमणीयः ॥ २२९.१ ॥ म्तौ सौ गावसंबाधा ॥ २३०॥ मतनसगगाः। डैरिति पञ्चभिर्यतिः । यथा "नैतल्लक्ष्माङ्के किमुत कटुरसं बाधा, हेतुः संलीनं विषमिह सहजप्रीत्या । तेनायं मूच्छी विरचयति सुधारश्मिः, शङ्के निःशङ्कः सपदि विरहिलोकानाम् । २३०.१ ॥ त्भौ जौ गौ वसन्ततिलका ॥ २३१ ॥ भजजगगाः। यथा "सत्कर्णिकारचितविभ्रमभासमानां, नव्यस्फुरद्रुचिरपत्रलतावलीकाम् । दिष्टया वसन्त तिलकाञ्चितचारुशोभां, कान्तां वनश्रियमिमां त्वमुपागतोऽसि ॥ २३१.१ ॥ - उद्धर्षिणी सैतवस्य । सिंहोन्नता काश्यपस्य ॥ २३१.१ ॥ नौ भौ गौ वलना ॥ २३२॥ रनमभगगाः । यथा "नव्ययौवननटस्य तनोति नियोग, निश्चितं वरतनुर्विकसन्मुखरागा। हस्तकैरभिनयं कुरुते ब्रुवती यद् , व्यभुतेऽङ्गवलनादि पदे पद एषा ॥ २३२.१ ॥ लतेत्यन्यः ॥ २३२.१॥ बनल्गाः सुकेसरम् ॥ २३३ ॥ नरनरलगाः। यथा "घटयसे ज्यया किमिति काम कार्मुकं,' यदभवत् पुरस्तव जगद् वशंवदम् ॥ मधुकरीनिनादमयमत्रमत्रितैर, जलरुहां सुकेसरपरागचूर्णकैः ॥ २३३.१ ॥ ..... 1) नैतलक्ष्माङ्के किमुतेत्यत्र सहजप्रीत्येति-उभयोः समुद्राजातत्वात् बान्धवत्वम् । 2) सस्कणिका: रेत्यत्र कर्णिका कर्णिकाभरणं पक्षे कर्णिकारा वृक्षास्तत्र चिता मिलिता ये वयः पक्षिणस्तेषां भ्रमः । पक्षे विमो बिलासः । पत्रलता पीअलिवलि उदरस्था त्रिवली। पक्षे पल्लवानां आवली । तिलको वक्षविशेषः । पझे पुण्इंच। कान्तां प्रियां मनोज्ञाम् । 3) नव्ययौवनेत्यत्र व्यभुते भजते । 4) घटेयसे ज्ययेत्यन अन्यत्रापि वशीकरण अभिमन्त्रितचूर्णकैर्भवतीत्यर्थः । .५१ सिंहोद्धता १. २ अन्ये. A. .३ घटयेज्यया N. . Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy