SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ छन्दोऽनुशासनम्। स्यौ स्जौ गः सुदन्तम् ॥ २१७॥ सयसजगाः। यथा त्रिदिवं व्रजद्भिर्दिविषत्पतेः" पुरः सुभटैर्जवान्निर्दलिता इवार्गलाः । करवालघातैस्त्रुटितास्तदा समिद् वसुधासु दन्ताः करिणां चका शिरे ॥ २१७.१ ॥ नौ सौ गः कमलाक्षी ॥ २१८ ॥ यथा"विरचितनिबिडतरोत्कलिकाभिः कमिव नवमदजुषं न विदध्युः । सपदि शरदि सरितः कलहंस__ प्रकटितगतिललिताः कमलाक्ष्यः ॥ २१८.१ ॥ नीगौ त्वरितगतिः॥ २१९॥ नगणचतुष्टयं गुरुश्च । यथा नृवर तव धनुरधिगतगुणं ध्वनति च युधि भयवशतरला । कलयति च पिचुनिचयतुलनां । त्वरितगतिररिनृपतिपृतना ॥ २१९.१॥ , लघुगतिश्चपला वेत्यन्ये ॥ २१९.१ ॥ १३॥२६॥ शक्वर्या नौ सौ ल्गावपराजिता छैः ॥ २२० ॥ ननरसलगाः । छैरिति सप्तभिर्यतिः । यथा "शशधरवदनं कुशेशयलोचनं शुचिरुचिरुचिरं ललाटतट स्थितम् । विशदकरुणयाधिवासितमृद्धयो जिनमनुसरतां भवन्त्यपराजिताः ॥ २२०.१ ॥ 1) दिविषत्पतेः पुर इति-इन्द्रनगरस्येति भावः । समिद्वसुधेति-संग्रामधरणिषु। 2) विरचितेत्यन्न रणरणकैर्वीचिभिश्च । कलहंसैः पक्षे कलहंसवत् । कमलान्येवाक्षीणि यासां ताः। नदीविशेषणेन कमलाक्षीपदेन स्त्रियोऽप्याकृष्टाः। 3) नृवर तवेति-चकारद्वयं ध्वननकलनयोस्तुल्यकालताद्योतनार्थम् । पिचुशब्देन तूलम् । 4) शशधरवदनमित्यत्र भो भव्याः जिनं अनुसरतां पुंसां संपदोऽन्यापराजिता भवन्ति । कं चन्द्रवदनं कमलनयनम् । पु० कं ललाटेति-तदाज्ञाशिरसाङ्गीकरणात् करुणाभाविनम् । १ गं. २ चकासिरे AP. ३ अधिगगुण A. ४ चेत्यन्ये DEP, ५ स्थिति B. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy