________________
द्वितीयोऽध्यायः। नौ सौ गो गौरी ॥ २१३ ॥ ननतसगाः । यथा
ननु भव कुसुमेषो निशितशस्त्रस् __ तृणमसि यतिनोऽस्य प्रशमवृत्तेः । कचिदपि खलु तेऽन्ये मनसि येषां
निवसति "मृगनेत्रा कनकगौरी ॥ २१३.१ ॥
त्भौ स्जौ गो लक्ष्मीः ॥ २१४॥ तभसजगाः । यथा
विद्वद्गणैरुचितमुदीर्यते सदा
सिद्धेशनन्दन पुरुषोत्तमो भवान् । यत्त्वां स्वयंवरविधिनाभ्युपेयुषी ।
लक्ष्मीरियं "रणमकराकरोत्थिता ॥ २१४.१ ॥
भौ जौ गो अभ्रकम् ॥ २१५ ॥ तभजजगाः। यथा
"अभ्यस्यतीव रसवादकलामयं
सान्ध्यः क्षणोऽभिमतचन्द्रमहोदयः । तारौषधिप्रकटनाभिरतः सखे __ प्रोद्दीपयन् विविधवर्णमिहाभ्रकम् ॥ २१५.१ ॥
म्तौ सौ गः कोर्दुम्भो डैः ॥ २१६ ॥ ___ मतसरगाः। डैरिति पञ्चभिर्यतिः । यथा
लक्ष्मीः कान्ताभिर्विकचनेत्रोत्पलाभिस्
ताम्बूलं पत्रैः परिणतैर्वानवासैः । काव्यं कोहुँम्भाभिधनवच्छन्दसेदं
चेतोहारित्वं भजति वैदग्ध्यभाजाम् ॥ २१६.१ ॥
1) मृगनेत्रेति-मृगस्य नेत्रे इव नेत्रे यस्याः साः मृगनेत्रा। 2) रणमकराकरोत्थितेति-संग्रामसमुद्रसमुत्थिता। 3) अभ्यस्यतीवेत्यत्र इवोप्रेक्षायाम् । सन्ध्यासमयः सुवर्णपातनकलां शीलतीव । कथंभूतः चन्द्रस्य महानुदयो यत्र सः । पक्षे चन्द्रं सुवर्णम् । ताराः तारकाः, ओषधयस्तासां प्रकटनेऽभिरतः । पक्षे तार रूप्यं ओषधिः। पुनः कथंभूतः अभ्रक मेघ विविधवर्ण कुर्वन् । पक्षे स्वच्छपत्रमिति । 4) परिणतैरिति-पक्कैः ।
१ शस्त्र तृणमसि A; शस्त्रस्तृणमयि N. २ नात्युपेयुषी A. ३ सान्ध्यक्षणो ABFP. ४ कोडम्भो N3; कोट्ठभो H; कोटुंभो F; कोदुंभो G. ५ लक्ष्मी का० A. ६ ताम्बूलपत्रैः N. ७ कोडंभाभिध N. कोटुभाभिध F.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org