SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ छन्दोऽनुशासनम् । न्सौ तौ गो विद्युन्मालिका ॥ २०९ ॥ नसततगाः। यथा "घनतमसि नष्टान् द्रष्टुमत्रं क्षणे, निखिलपथिकान् संहारबुद्ध्या ध्रुवम् । बत परिगृहीताः प्रावृषा दीपिकाः, स्फुरितरुचिविद्युन्मालिकाव्याजतः ॥ २०९.१ ॥ स्जौ स्जौ गो नन्दिनी ॥ २१०॥ सजसजगाः । यथा वसुधाधिपत्यमिह देव नार्थये, ___ जिननाथ नापि पुरुहूतसंपदम् । वरदोऽसि चेन्मम तदा सदा मतिर्, भवताद् भवद्गुणगणाभिनन्दिनी ॥ २१०.१ ॥ कनकप्रभा, जया, सुमङ्गलीति च केचिदाहुः । मनोवतीति भरतः ॥ २१०.१॥ न्जौ सौ गो मदललिता ॥ २११ ॥ नजनसगाः। यथा कलितकलङ्कशितिसिचयसंपत् , करदलितेद्धतिमिरयमुनाम्बुः । प्रथयति गौरवपुरमृतरश्मिर, ___ मुर्शलधरस्य "समदललितानि ॥२११.१ ॥ स्जौ सौ गः कुटजम् ॥ २१२॥ सजससगाः । यथा परमं प्रकर्षमधिरुह्य विध्यात् किमिव प्रवासविषमस्थितिभाजाम् । कुरुते यतः प्रथमतोऽपि "घनतुः कुटजप्रसूनरजसा जगदन्धम् ॥ २१२.१ ॥ भ्रमर इत्यन्यः ॥ २१२.१ ॥ 1) घनतमसीति - निबिडान्धकारे । पक्षे धनस्य मेघस्य दुर्दिनम् । क्षणे इति - वर्षालक्षणकाले। ध्रुवमिति - शके। बतेति-निन्दायाम् । व्याजत इति - च्छलात् । 2) समदललितेति - विलासक्रीडितानि । 3) घनतुरिति- मेघागमः। १अत्रेक्षणे N. २ स्युरिह रुचि N. ६६०.अन्यः dropped in B. ३ मम न तदा A. ४ मुसल• P. ५प्रथमतो घनकाल: .. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy